बिल्वखल्वाटन्यायः

विकिसूक्तिः तः

कदाचित् एकः खल्वाटः अधिकधावनेन श्रान्तः एकस्य बिल्ववृक्षस्य छायाम् आश्रितवान् । अकस्मात् एकं पक्वं बिल्वफलम् तस्य शिरसि पतितं तस्य शिरश्च भग्नं जातम् । एवं दुर्दैवेन जायमानां घटनां बोधमति अयं न्यायः ।

यथा –खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके

वाञ्छन् देशमनातपं विधिवशाद् बिल्वस्य मूलं गतः ।

तत्राप्यस्य महत्फलेन पतता भग्नं सशब्दं शिरः

प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥

(भर्तृहरि- नीतिशतके ८४) सा. ११३

"https://sa.wikiquote.org/w/index.php?title=बिल्वखल्वाटन्यायः&oldid=10590" इत्यस्माद् प्रतिप्राप्तम्