ब्रह्मविदाप्नोति परम्...

विकिसूक्तिः तः

ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानम् अनन्तं ब्रह्म । यो वेद निहितं
गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति ॥ - तैत्तिरीयोपनिषत् २-१-१

ब्रह्मवित् परं ब्रह्म आप्नोति । अयं मन्त्रः इदं विवृणोति । ब्रह्म, सत्यं ज्ञानम् अनन्तं च ।
परमे व्योम्नि गुहायां निहितं ब्रह्म यो वेद, सः सर्वान् कामान् सर्वज्ञेन ब्रह्मणा सह अश्नुते ॥

बृंहति इति ब्रह्म । चिन्मात्रस्वरूपं परिपूर्णं तत्त्वमेव ब्रह्म । सत्यम् अविकारि ब्रह्म, ज्ञानं
ज्ञप्तिमात्रं ब्रह्म, अनन्तम् अपरिच्छिन्नं च ब्रह्म । न कुत्रापि बहिः अस्मत्तः भिन्नतया देशान्तरे
कालान्तरे वा ब्रह्म विद्यते । देशकालयोरेव कारणभूतं ब्रह्म देशकालपरिच्छिन्नं भवेद्वा ?
एवंभूतं ब्रह्म विदितवतः फलं ब्रह्मप्राप्तिरेव । ब्रह्मज्ञानेन ब्रह्मप्राप्तिः ॥

इदं ब्रह्म अस्मासु गुहायां निहितमस्ति । परमार्थदृष्ट्या स्वयमेव ब्रह्म । परिपूर्णेन ब्रह्मणा
सहैव ब्रह्मवित् सर्वान् कामान् अवाप्नोति | सर्वमेव जगत् ब्रह्मैव इति विजानतः ब्रह्मभिन्नतया
प्राप्याः कामाः नैव विद्येरन् इत्यर्थः ॥