ब्रह्मा देवानां प्रथमः...

विकिसूक्तिः तः

ब्रह्मा देवानां प्रथमः सम्बभूव
विश्वस्य कर्ता भुवनस्य गोप्ता ।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम्
अथर्वाय ज्येष्ठपुत्राय प्राह ॥ - मुण्डकोपनिषत् १-१-१

सर्वदेवानां प्रथमत्वेन ब्रह्मा आविर्बभूव । एषः विश्वस्य कर्ता, भुवनस्य गोप्ता ।
अयं ब्रह्मा सर्वविद्याप्रतिष्ठां ब्रह्मविद्यां ज्येष्ठपुत्राय अथर्वाय प्राह ॥

मानवजन्मनः महत् लक्ष्यं नाम मोक्ष एव । मोक्षस्य साधनं च ब्रह्मविद्या एव ।
ब्रह्मविद्यया समाना अन्या सम्पत् नास्त्येव । परस्माद् ब्रह्मणः आगता इति ब्रह्मविद्या ।
ब्रह्मणा अपरेण प्राप्तत्वात् ब्रह्मविद्या । ब्रह्मद्वारा प्रसृतत्वात् ब्रह्मविद्या । परब्रह्म अधिकृत्य
प्रवृत्तत्वात् ब्रह्मविद्या । परा च असौ विद्या च इति च ब्रह्मविद्या । परब्रह्मविषया
बृहत्तमतत्वविषया च ब्रह्मविद्या । एवं ब्रह्मविद्याचार्यैः स्वशिष्येभ्यः,विवेकिभिः जनकैः
स्वपुत्रेभ्यश्च उपदिश्यमाना मुक्तिसाधनभूता ब्रह्मविद्या । सकलवेदशास्त्रपुराणसारभूता च ब्रह्मविद्या ॥