ब्रह्म तं परादात्...

विकिसूक्तिः तः

ब्रह्म तं परादात् योऽन्यत्र आत्मनो ब्रह्म वेद; क्षत्रं, लोकाः, देवाः, भूतानि,
सर्वं तं परादात् योऽन्यत्र आत्मनः सर्वं वेद । - बृहदारण्यकोपनिषत् २-४-६

आत्मनः भिन्नत्वेन येन दृष्टं ब्राह्मण्यं तं मूढं तत् निराकरोति, तथा आत्मनः भिन्नत्वेन
येन दृष्टा क्षत्रियजातिः तं सा तिरस्करोति; तथा लोकाः देवाः भूतानि आत्मनः भिन्नत्वेन
ज्ञातानि चेत् तदा तादृशं मूढं तानि सर्वाणि तिरस्कुर्वन्ति ॥

न किञ्चित् वस्तु आत्मनः भिन्नतया जीवेत् । आत्मनः भिन्नतया न किञ्चित् वस्तु परमार्थतः
अस्ति । इदं रहस्यम् अविज्ञाय अज्ञानिनः दुःखकूपे पतिताः सन्तः नित्यदुःखिनो भवन्ति ॥

तस्मात् आत्मनः भिन्नत्वेन दृष्टं यत्किञ्चित् वस्तु भवतु, तत् स्वयं नैव सन्तोषम् अनुभवति ।
न केवलं तावदेव, किं तु तादृशं वस्तु तथादर्शिनं निराकरोति । आत्मनः भिन्नत्वेन दृष्टाः लोकाः
तथादर्शिनम् अज्ञानिनं तिरस्कुर्वन्ति । आत्मनः भिन्नत्वेन ज्ञाताः देवाः तम् अज्ञानिनं मूढत्वेन
निराकुर्वन्ति । भूतानि, प्राणाश्च आत्मनः भिन्नत्वेन दृष्टाश्चेत् ते तं भेददर्शिनं तिरस्कुर्वन्ति ॥

"https://sa.wikiquote.org/w/index.php?title=ब्रह्म_तं_परादात्...&oldid=16507" इत्यस्माद् प्रतिप्राप्तम्