ब्राह्मणश्रमणन्यायः

विकिसूक्तिः तः

यदि कश्चन ब्राह्मणः बौद्धधर्मस्वीकारेणा श्रमणकः जातः चेदपि ब्राह्मणा इत्येव तस्य निर्देशो भवति पूर्वकर्मानुसारम् । ‘निरुपादानसंभार’ इति काव्यप्रकाशप्रसङ्गे (४-५७) अस्य प्रयोगः

अलङ्कारशास्रे व्यतिरेकध्वनेः प्रसङ्गे अस्य प्रयोगः कृतः ।

यथा – यः पूर्वं क्वापि वाक्यार्थे अलङ्कारभावम् उपमादिरुपतया अन्वभूत् इदानीं त्वलङ्काररुप एवं अन्यत्र गुणीभावभावात् । सःपूर्वप्रत्यभिज्ञानबलात् अलङ्कारध्वनिरिति व्यपदिश्यते ब्राह्मणाश्रमणन्यायेन । (सा. १६८)

अलङ्कार्यस्यापि ब्राह्मणश्रमणन्यायेन अलङ्कारिता

तुल्यः –

(काव्यप्रकाशावृत्तौ ४-५७)

गोबलीवर्दन्यायः

"https://sa.wikiquote.org/w/index.php?title=ब्राह्मणश्रमणन्यायः&oldid=10605" इत्यस्माद् प्रतिप्राप्तम्