भगवांस्त्वेव मे तद् ब्रवीतु...

विकिसूक्तिः तः
Jump to navigation Jump to search

भगवांस्त्वेव मे तद् ब्रवीतु । - छान्दोग्योपनिषत् ६-१-७

भगवान् भवानेव तं विचारम् मह्यम् आवेदयतु ।

पुत्रेण श्वेतकेतुना पितरम् उद्दालकं प्रति उक्तमिदं वचनम् । 'गुरोः सकाशात् आत्मविषयकः
विचारः त्वया श्रुतः किम् ?' इति पित्रा पृष्टः श्वेतकेतुः इदं वचः जनकं प्रति वदति ॥

ब्रह्मनिष्ठो हि सद्गुरुः । गुरुर्नाम जनको वा पुत्रो वा भवेत् । तम् उपगम्य तस्मादेव आत्मतत्त्वम्
अवगन्तव्यम् । अत्र हि मन्त्रे गुरवे ‘भगवान्’ इति विशॆषणं दत्तमस्ति । उपनिषत्सु हि ब्रह्मविद्याचार्याय
सद्गुरवे ‘भगवान्’ इति विशेषणं सामान्यतो दीयते ॥

भगवान् नाम पूज्यः इत्यर्थः । गुरौ हि भगवद्दृष्टिः कर्तव्या । गुरवो हि अस्मदादिवदेव देहवन्त इव दृश्यमाना
अपि न ते सामान्य मनुष्यवत् मन्तव्याः । गुरूषु भक्तिपूर्विका पूज्यभावना विद्यते चेत् तदा तेषाम् उपदेशः
फलकारी भवेत् । तस्मादेव सद्गुरवः ‘भगवः’, ‘भगवन्’ इति विशेषणैः शास्त्रेषु सम्बोध्यन्ते ॥