भिक्षुपादप्रसारणन्यायः
एकदा एकः भिक्षुकः एकस्य संम्पन्नस्य गृहम् आगतः । अयं संपन्नः मह्यं पर्याप्तम् अन्नं, वस्त्रं वासस्थानञ्च ददातु इति तस्य अपेक्षा आसीत् । परन्तु एतत् सर्वं सहसा प्राप्तुं शक्यम् एव न । अतः भिक्षुकः योजनां कृतवान् यत् आदौ पादप्रसारणस्य कृते आवश्यकं स्थलं प्राप्स्यामि तदनन्तरं शनैः सर्वं सम्पादयिष्यामि इति ।
एवं महत् फलं प्रेप्सुना मनुष्येण आदौ अल्पफलेन अपि संतोष्टव्यम् । कालान्तरेण महत् फलम् अपि संपाद्यते इति भावः ।
तुल्यः – १. भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्यभिधानमुखेन स्वामित्वानुकूल्यवेदनीयत्वानुगतत्व – सर्वसत्यत्वादिभ्रमव्या वर्तनेन सर्वशून्यतायामेव पर्यवसानम् । सर्वदर्शनसंग्रहे बौद्धदर्शने १४
२ तत्त्वमुक्ताकलापे पृष्ठे २५४
५००. भिक्षुभिया स्थाल्यनधिश्रयणन्यायः
भिक्षुकाः आगमिष्यन्ति इति भयेन पाकार्थं स्थाल्यः न अधिश्रिताः कयाचित् । एवं ब्रह्मज्ञानं गुरुकृपयै० भवतीति केनापि स्वप्रयत्नः एव न कृतः चेत् तत् अयोग्यम् । असाधूनां जनानां कारणेन साधुपक्षस्य अनाश्रयणं न वरम् इति भावः । (सा.६४७)