भिल्लीचन्दनन्यायः

विकिसूक्तिः तः

मलयपर्वतस्य उपरि चन्द्नतरवः बाहुल्येन भवन्ति । सततं तत्र चन्दनं लभ्यते । तस्य चन्दनस्य कियत् मूल्यम् अन्यत्र भवति इति तत्र स्थिताः भिल्लमहिलाः न जानन्ति अतः ताः पाकार्थम् इन्धनम् इव तस्य उपयोगं कुर्वन्ति । अति परिचयतः अपमान एव भवतीति अनेन बोध्यते । यथा –

अतिपरिचयादवज्ञा संततगमनादनादरो भवति ।

मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं करोति । शार्ङ्गधरपद्धतौ ८३

"https://sa.wikiquote.org/w/index.php?title=भिल्लीचन्दनन्यायः&oldid=10644" इत्यस्माद् प्रतिप्राप्तम्