भूरिभिर्भारि...
दिखावट
चित्रकाव्यम्
भूरिभिर्भारिभिर्भीराभूभारैरभिरेभिरे ।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥
वैशिष्ट्यम्
अस्मिन् श्लोके भ र इत्येतत् वर्णद्वयमात्रम् उपयुक्तम् ।
अर्थः
निर्भयः गजः यः स्वस्य महतः भारात् भूमेः भारभूतः आसीत्, यस्य ध्वनिः दुन्दुभायते, यः घनमेघः इव आसीत्, तेन शत्रुगजः आक्रान्तः ।