मरुद्भि: पीड्यमानोऽपि
नेविगेशन पर जाएँ
खोज पर जाएँ
सुभाषितम्
मरुद्भि: पीड्यमानोऽपि संत्यक्तोऽपि दिवानिशम् ।
विषयस्नेहरहितो रत्नदीप: प्रकाशते ॥
(सुभाषितनीवी- ७/७)
तात्पर्यम्
अन्वय: - (यथा)रत्नदीप: मरुद्भि: पीड्यमान: अपि संत्यक्त: अपि दिवानिशं प्रकाशते ,(तथा) विषस्नेहरहित: (अपि)(प्रकाशते) । पदार्थ: - रत्नदीप: = रत्नरूपी दीप:, हीरवत्, दिवानिशं = दिने च रात्रौ च, विषयस्नेहरहित: = जितेन्द्रिय:, मरुत् = वायु: सरलार्थ: - यथा रत्नरूपी दीप: (उदाहरणं - हीर: ) वायुना प्रहृत: अपि ,विना तैलमपि, विना अवधानमपि नैरन्तर्येण प्रकाशते , तथैव य: शब्दस्पर्शरूपरसगन्धादीन्द्रियसुखेषु समानचित्त: सन् संयमपूर्वकजीवनयापनं करोति, स: अहर्निशं (सर्वदा)प्रकाशते ।