मर्कटानल- तापशान्तिन्यायः

विकिसूक्तिः तः
Jump to navigation Jump to search

एकदा महति शैत्यकाले उष्णतासंपादनार्थं कथञ्चित् अग्निः ज्वालनीय इति कैश्चित् वानरैः चिन्तितम् । परितः अवलोकिते सति तत्र प्रकाशमानाः खद्योताः अग्निकणिका इव दृष्टाः । तदा तान् एव अग्निकणिकान् मत्वा वानरैः बहवः खद्योताः कथञ्चित् एकत्रीकृताः फूत्कृताः च । कथं खद्योतेभ्यः अग्निः उत्पद्येत ? वानराणां मूर्खचेष्टां दृष्ट्वा कश्चन चटकः तेषां भ्रमं दूरीकर्तुं महान्तं प्रयत्नं कृतवान् “वृथा अस्माकं व्यवहारे त्वम् आगच्छसि” इति कुपिताः वानराः तं चटकं मारितवन्तः । एवं मूर्खेभ्यः कृतः उपदेशः उपदेशकर्तुः विनाशाय भवति । इति अनेन न्यायेन बोध्यते । यथा – उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ पञ्चतन्त्रे १-४-२०