महाभारतसूक्तयः(यज्ञः)

विकिसूक्तिः तः
Jump to navigation Jump to search

यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर॥ भीष्म. २७/९; गीता. ३/९॥

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्॥ भीष्म. २७/१०; गीता. ३/१०॥

देवान् भावयतानेन ते देवा भावयन्तु वः।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ॥ भीष्म. २७/११; गीता. ३/११॥

इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः।
तैर्दत्तानप्रदायेभ्यो यो भुङ्क्ते स्तेन एव सः॥ भीष्म. २७/१२; गीता. ३/१२॥

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्विषैः।
भुञ्जते ते त्वघं पापाः ये पचन्त्यात्मकारणात्॥ भीष्म. २७/१२; गीता. ३/१३॥

अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः।
यज्ञाद् भवन्ति पर्जन्यो यज्ञः कर्मसमुद्भवः॥
भीष्म. २७/१४; सभा. ३/१४; गीता. ३/१४॥

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर समुद्भवम्।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥ भीष्म. २७/१५॥

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥ भीष्म. २७/१६; गीता. ३/१६॥

सात्त्विक यज्ञ
अफलकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः॥ भीष्म. ४१/११; गीता. १७/११॥

राजसिक यज्ञ
अभिसंधाय तु फलं दम्भार्थमपि चैव यत्।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥ भीष्म. ४१/१२; गीता. १७/१२॥

तामसिक यज्ञ
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते॥ भीष्म. ४१/१३; गीता. १७/१३॥

न हि यज्ञसमं किञ्चित् त्रिषु लोकेषु विद्यते॥ शान्ति. ६०/४५॥

नैव कन्या न युवतिर्नामन्त्रज्ञो न बालिशः॥ शान्ति. १६५/२१॥

परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्था।
हुतेन शाम्यते पापं स्वाध्यायैः शान्तिरुत्तमा।
दानेन भोगानित्याहुस्तपसा स्वर्गमाप्नुयात्॥ शान्ति. १९१/२॥

आज्येन पयसा दध्ना शकृताऽऽभिक्षया त्वचा।
बालैः श्रृङ्गेण पादेन सम्भवत्येव गौर्मखम्॥ शान्ति. २६८/२८॥

ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च।
अनुयज्ञं जगत् सर्वं यज्ञश्चानुजगत् सदा॥ शान्ति. २६८/३४॥

नायं लोकिऽस्त्ययज्ञानां परश्चेति विनिश्चयः॥ शान्ति. २६८/४०॥

बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः।
अजसंज्ञानि बीजानि च्छागं नो हन्तुमर्हथ॥ शान्ति. ३३७/४॥

नैष धर्मः सतां देवा यत्र वध्येत वै पशुः।
इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः॥ शान्ति. ३३७/५॥

इदं तु सकलं द्रव्यं दिवि वा भुवि वा प्रिये।
यज्ञार्थं विद्धि तत् सृष्टं लोकानां हितकाम्यया॥ अनु. १४५ दा. पा. XI॥

शुद्धैर्द्रव्योपकरणैर्यष्टव्यमिति निश्चयः॥ अनु. १४५ दा. पा. XI॥

देवाः संतोषिता यज्ञैर्लोकान् संवर्धयन्त्युत॥ अनु. १४५ दा. पा. XI॥

नास्ति यज्ञसमं दानं नास्ति यज्ञसमो निधिः।
सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः॥ अनु. १४५ दा. पा. XI॥

असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम्।
प्रयतन्ते महात्मानस्तस्माद् यज्ञः परायणम्॥ आश्व. ३/६॥

यज्ञैरेव महात्मनो बभूवुरधिकाः सुराः।
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन्॥ आश्व. ३/७॥

अद्रोहः सर्वभूतेषु सन्तोषः शीलमार्जवम्।
तपो दमश्च सत्यं च प्रदानं चेति सम्मितम्॥ आश्व. ९०/१२०॥

यज्ञे सक्ता नृपतयस्तपः सक्ता महर्षयः।
शान्तिव्यवस्थिता विप्राः शमे दम इति प्रभो॥ आश्व. ९१/१॥

न हि यज्ञे पशुगणा विधिदृष्टा पुरंदर॥ आश्व. ९१/१३॥

धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो।
नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते॥ आश्व. ९१/१४॥

यदधीतेऽन्वहं शक्त्या तत् स्वाध्यायं प्रचक्षते॥ आश्व. ९२ दा. पा. अ.IX॥

तर्पणं ॠभुयज्ञः स्यात् स्वाध्यायो ब्रह्मयज्ञकः।
भूतयज्ञो बलिर्यज्ञो नृयज्ञोऽतिथिपूजनम्।
पितॄनुद्दिश्य यत् कर्म पितृ यज्ञः प्रकीर्तितः॥ आश्व. ९२ दा. पा. अ.IX॥

अग्निष्टोमसहस्रस्य वाजपेयं च तत्समम्।
वाजपेयसहस्रस्य अश्वमेधं च तत्समम्।
अश्वमेधसहस्रस्य राजसूयं च तत्समम्॥ आश्व. ९२ दा. पा. अ.X॥

यस्माद् वै त्रायते दुःखाद् यजमानं हुतोऽनलः।
तस्मात् तु विधिवत् प्रोक्तमग्निहोत्रमिति श्रुतौ॥ आश्व. ९२ दा. पा. अ.XVI॥

अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम्।
रतिपुत्रफला दारा दत्तभुक्तफलं धनम्॥ आश्व. ९२ दा. पा. अ.XVI॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(यज्ञः)&oldid=15495" इत्यस्माद् पुनः प्राप्तिः