महाभारतसूक्तयः(युगः)
काष्ठा निमेषा दश पञ्चचैव त्रिंशस्तु काष्ठा गणयेत् कलां ताम्।
त्रिंशत्कलश्चापि भवेन्मुहूर्तो भागः कलाया दशमश्च यः स्यात्॥ शा. २३१/१२॥
त्रिंशन्मुहूर्त्तं तु भवेदहश्च रात्रिश्च संख्या मुनिभिः प्रणीता।
मासः स्मृतो रात्र्यहनी च त्रिंशत् संवत्सरो द्वादश मास उक्तः॥ शा. २३१/१३॥
संवत्सरं द्वे त्वयने वदन्ति संख्याविदो दक्षिणमुत्तरं च॥ शा. २३१/१४॥
अहोरात्रे विभजते सूर्यो मानुष लौकिके।
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः॥ शा. २३१/१५॥
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः।
शुक्लोऽहः कर्मचेष्टायां कृष्णः स्वप्नाय शर्वरी॥ शा. २३१/१६॥
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः।
अहस्तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम्॥ शा. २३१/१७॥
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्।
तस्य तावच्छती संध्या संध्यांशश्च तथाविधः॥ शा. २३१/२०॥
इतरेषु ससंध्येषु संध्यांशेषु ततस्त्रिषु।
एक पादेन ह्रीयन्ते सहस्राणि शतानि च॥ शा. २३१/२१॥
चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे।
नाधर्मेणागमः कश्चित् परस्तस्य प्रवर्तते॥ शा. २३१/२३॥
इतरेष्वागमाद् धर्मः पादशस्त्ववरोप्यते।
चौर्यकानृतमायाभिरधर्मश्चोपचीयते॥ शा. २३१/२४॥
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः।
कृते त्रेतायुगे त्वेषां पादशो ह्रसते वयः॥ शा. २३१/२५॥
तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम्।
द्वापरे यज्ञमेबाहुर्दानमेकं कलौ युगे॥ शा. २३१/२८॥
एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः।
सहस्रपरिवर्तं तत् ब्राह्मं दिवसमुच्यते॥ शा. २३१/२९॥
त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः।
तपस्विनः प्रशान्ताश्च सत्त्वस्थाश्च कृते युगे॥ शा. २३८/७॥
अपृथग्दर्शनाः सर्वे ॠक्सामसु यजःषु च।
कामद्वेषौ पृथक् कृत्वा तपः कृत उपासते॥ शा. २३८/८॥
त्रेतादौ केवला वेदा यज्ञा वर्णाश्रमास्तथा।
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे॥ शा. २३८/१४॥
द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा।
दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः किल॥ शा. २३८/१५॥
उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः।
गवां भूमेश्च ये चापामोषधीनां च ये रसाः॥ शा. २३८/१६॥
अधर्मान्तर्हिता वेदा वेदधर्मास्तथाऽऽश्रमाः।
विक्रियन्ते स्वधर्मस्थाः स्थावराणि चराणि च॥ शा. २३८/१७॥
यथा सर्वाणि भूतानि वृष्टिर्भौमानि वर्षति।
सृजते सर्वतोऽङ्गानि तथा वेदा युगे युगे॥ शा. २३८/१८॥
पादोनेनापि धर्मेण गच्छेत् त्रेतायुगे तथा।
द्वापरे तु द्विपादेन पादेन त्वधरे युगे॥ शा. २६७/३३॥