महाभारतसूक्तयः(युद्धम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

सम्प्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ।
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम्॥ विराट. ५२/१३॥

युद्धेऽनयो भविता नेह सोऽर्थः॥ उद्योग. २/१४॥

सर्वक्षयो दृश्यते यत्र कृत्स्नः पापोदयो निरयोऽभावसंस्थः।
कस्तत् कुर्याज्जातु कर्म प्रजानन् पराजयो यत्र समो जयश्च॥ उद्योग. २५/७॥

युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम्॥ उद्योग. ५३/१४॥

जयो नैवोभयोर्दृष्टो नोभयोश्च पराजयः।
तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ॥ उद्योग. ७२/५२॥

नैकान्तसिद्धिर्वक्तव्या शत्रुभिः सह संयुगेः। उद्योग. ७७/१३॥

न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम्।
न चापि विजयो नित्यं मा युद्धे चेत् आधिथाः॥ उद्योग. १२९/४०॥

युद्धमेकायनं मत्वा पतोल्मुक इवारिषु॥ उद्योग. १३४/२९॥

न वधः पूज्यते वेदे हितं नैव कथंचन॥ भीष्म. ३/५४॥

जघन्य एष विजयो यो युद्धेन विशाम्यते॥ भीष्म. ३/८१॥

महादोषः संनिपातस्तस्याद्यः क्षय उच्यते॥ भीष्म. ३/८२॥

न बाहुल्येन सेनाया जयो भवति नित्यशः।
अध्रुवो हि जयो नाम दैवं चात्र परायणम्।
जयवन्तो हि संग्रामे कृतकृत्या भवन्ति हि॥ भीष्म. ३/८५॥

संहतान् योधयेदल्पान् कामं विस्तारयेद् बहून्॥ भीष्म. १९/४॥

सूचीमुखमनीकं स्यादल्पानां बहुभिः सह॥ भीष्म. १९/५॥

कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये॥ द्रोण. १२२/१३॥

पराजयो वा मृत्युर्वा श्रेयान् मृत्युर्न निर्जयः॥ द्रोण. २००/२९॥

यदाशूरं च भीरुं च मारयत्यन्तकः सदा।
को नु मूढो न युध्येत पुरुषः क्षत्रियो ध्रुवम्॥ शल्य. १९/६२॥

सुखः सांग्रामिको मृत्युः क्षत्रधर्मेन युध्यताम्॥ शल्य. १९/६३॥

पुनरावर्तमानानां भग्नानां जीवितैषिणाम्।
भेतव्यमरिशेषाणामेकायनगता हि ते॥ शल्य. ५८/१५॥

हतोऽपि लभते स्वर्गं हत्वा च लभते यशः।
उभयं नो बहुगुणं नास्ति निष्फलता रणे॥ स्त्री. २/१४॥

न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया।
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः॥ स्त्री. २/१५॥

एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम्।
न युद्धादधिकम् किंचित् क्षत्रियस्येह विद्यते॥ स्त्री. २/१८॥

संनिपातो न मन्तव्यः शक्ये सति कथंचन।
सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते॥ शान्ति. १०२/२२॥

विषयो व्यथते राजन् सर्वः सस्थाणुजङ्गमः।
अस्य प्रताप तप्तानां मज्जा सीदति देहिनाम्॥ शान्ति. १०२/२५॥

न जातु कलहेनेच्छेन्नियन्तुमपकारिणः।
बालैरासेवितं ह्येतद् यद्मर्षो यदक्षमा॥ शान्ति. १०३/७॥

न सन्निपातः कर्त्तव्यः सामान्ये विजये सति॥ शान्ति. १०३/१३॥

अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः।
एकः प्राप्नोति विजयमेकश्चैव पराजयम्॥ शान्ति. २२७/२४॥