महाभारतसूक्तयः(युधिष्ठिरः)

विकिसूक्तिः तः
Jump to navigation Jump to search

न मे वागनृतं प्राह नाधर्मे धीयते मतिः॥ आदि. १९४/३०, १९५/१३॥

यस्मिन् धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः।
नित्यानि पाण्डवे ज्येष्ठे स जीयेत रणे कथम्॥ आदि. २०४/१९॥

भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम्।
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत्॥ सभा. १६/२॥

अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम्।
अद्विषन्तं कथं द्विष्यात् त्वादृशो भरतर्षभ॥ सभा. ५४/२॥

आहूतोऽहं न निवर्ते कदाचित् तदाहितं शाश्वतं वै व्रतं मे॥ सभा. ५८/१६॥

निकृत्या कामये नाहं सुखान्युत धनानि वा॥ सभा. ५९/१३॥

आनृशंस्यमनुक्रोशो धृतिः शीलं दमः शमः।
पाण्डवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्॥ सभा. ७९/३१ दा. पा.॥

न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः॥ सभा. ८०/१०॥

सत्येन धर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य।
यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्थ॥ वन. २५/१७॥

मम प्रतिज्ञां च निबोध सत्यां वृणे धर्मममृताज्जीविताच्च॥ वन. ३४/२२॥

यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि।
अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात्॥ वन. ३३/७७॥

अनृतं नोत्सहे वक्तुं न ह्येतन्मम विद्यते॥ वन. ५२/३८॥

वासवः स्मरते यस्य को नामाभ्यधिकस्ततः॥ वन. ९२/१४-१५॥

स्वाभ्यां भुजाभ्यामर्जितां तु भूमिं नेच्छेत् कुरूणामृषभः कथंचित्॥ वन. १२०/२३॥

न ह्येष कामान्न भयान्न लोभाद् युधिष्ठिरो जातु जह्यात् स्वधर्मम्॥ वन. १२०/२४॥

सत्यं तु मे रक्ष्यतमं न राज्यम्॥ वन. १२०/२७॥

सत्यार्जवाभ्यां चरता स्वधर्मं जितस्त्वयायं च परश्च लोकः॥ वन. १८३/१६॥

कामान्न किंचित् कुरुषे नरेन्द्र न चार्थलोभात् प्रजहासि धर्मम्॥ वन. १८३/१८॥

दानं च सत्यं च तपश्च राजन् श्रद्धा च बुद्धिश्च क्षमा धृतिश्च।
अवाप्य राष्ट्राणि वसूनि भोगानेषा परा पार्थ सदा रतिस्ते॥ वन. १८३/१९॥

भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर।
प्रसक्तानि च वैराणि कुलधर्मो न नश्यति॥ वन. २४३/२॥

परैः परिभवे प्राप्ते वयं पञ्चोत्तरं शतम्।
परस्पर विरोधे तु वयं पञ्च शतं तु ते॥ वन. २४३/४॥

अधर्मयुक्तं न च कामयेत राज्यं सुराणामपि धर्मराजः॥ उद्योग. १/१४॥

धर्मार्थयुक्तं महीपतित्वं ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत्॥ उद्योग. १/१५॥

क्षमा दमश्च सत्यं च अहिंसा च युधिष्ठिर।
अद्भुतश्च पुनर्लोकस्त्वयि राजन् प्रतिष्ठितः॥ उद्योग. ८/३५॥

मुदुर्वदान्यो ब्रह्मण्यो दाता धर्मपरायणः।
धर्मास्ते विदिता राजन् बहवो लोकसाक्षिकाः॥ उद्योग. ८/३६॥

महातपा ब्रह्मचर्येण युक्तः संकल्पोऽयं मानसस्तस्य सिद्ध्येत्॥ उद्योग. २२/३५॥

उद्भासते ह्यञ्जनबिन्दुवत् तच्छुभ्रे वस्त्रे यद् भवेत् किल्विषं वः॥ उद्योग. २५/६॥

युधिष्ठिरो धर्ममयो महादुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः।
माद्रीपुत्रौ पुष्पफले समृद्धे मूलं त्वहं ब्रह्म च ब्राह्मणाश्च॥ उद्योग. २९/५३॥

परो धर्मात् पाण्डवस्यानृशंस्यं धर्मः परो वित्तचयान्मतोऽस्य।
सुखप्रिये धर्महीनेऽनपायेर्थेऽनुरुध्यते भारत तस्य बुद्धिः॥ उद्योग. ३२/१२॥

युधिष्ठिरो धृतिमति सत्यसत्त्वान्॥ द्रोण. २/१६॥

कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि॥ स्त्री. ८/४३॥

ह्रीमान् सत्यधृतिर्दान्तो भूतानामनुकम्पिता।
कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते॥ उद्योग. ९०/१८॥

स सत्यसंधः स तथाप्रमत्तः शास्त्रे स्थितो बन्धुजनस्य साधुः।
प्रियः प्रजानां सुहृदानुकम्पी जितेन्द्रियः साधुजनस्य भर्ता॥ उद्योग. १४९/३३॥

क्षमा तितिक्षा दम आर्जवं च सत्यव्रतत्वं श्रुतमप्रमादः।
भूतानुकम्पा ह्यनुशासनं च युधिष्ठिरे राजगुणाः समस्ताः॥ उद्योग. १४९/३४॥

ब्रह्मण्यः सत्यवाग् दान्तो गुरुदैवतपूजकः।
नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः॥ द्रोण. १५८/३६॥

धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः॥ द्रोण. १५८/३७॥

धर्मस्यांश प्रसूतोऽसि धर्मिष्ठोऽसि स्वभावतः॥ शान्ति. १९८/२॥

धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि।
सत्यं धर्मो मतिश्चाग्य्रा स्थितिश्च सततं स्थिरा॥ आश्व. १५/२४॥

दीर्घदर्शी मृदुर्दान्तः सदा वैश्रवणो यथा॥ आश्रमवास. १०/४२॥

अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः।
आनृशंस्या हि मे मतिः॥ महाप्रस्थान. ३/८॥