सामग्री पर जाएँ

महाभारतसूक्तयः(योगः)

विकिसूक्तिः तः

सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥ भीष्म. २६/४८, गीता.२/४८॥

योगः कर्मसु कौशलम्॥ भीष्म. २६/५०, गीता.२/५०॥

एकं सांख्यं च योगं च यः पश्यति स पश्यति॥ भीष्म. २९/५, गीता.५/५॥

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः॥ भीष्म. २९/१९, गीता.५/१९॥

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥ भीष्म. ३३/२२, गीता.९/२२॥

तं पूर्वापररात्रेषु युञ्जानः सततं बुधः।
लघ्वाहारो विशुद्धात्मा पश्यत्यामानमात्मनि॥ शान्ति. १८७/२९॥

तस्मात् समाहितं बुद्ध्या मनो भूतेषु धारयेत्।
नापध्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत्॥ शान्ति. २१५/८॥

अथामोघप्रयत्नेन मनो ज्ञाने निवेशयेत्।
वाचामोघप्रयासेन मनोज्ञं तत् प्रवर्तते॥ शान्ति. २१५/९॥

धृतिमानात्मवान् बुद्धिं निगृह्णीयादसंशयम्।
मनो बुद्ध्या निगृह्नीयाद् विषयान्मनसाऽऽत्मनः॥ शान्ति. २१५/१८॥

आहारनियमं चैव देशे काले च सात्त्विकम्।
तत् परीक्ष्यानुवर्तेत तत्प्रवृत्त्यनुपूर्वकम्॥ शान्ति. २१५/२३॥

प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत्।
ज्ञानान्वितं तथा ज्ञानमर्कवत् सम्प्रकाशते॥ शान्ति. २१५/२४॥

हेतुमच्छक्यमाख्यातुमेतावज्ज्ञान चक्षुषा।
प्रत्याहारेण वा शक्यमक्षरं ब्रह्म वेदितुम्॥ शान्ति. २१६/२०॥

यच्छेद् वाङ्मनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम्॥ शान्ति. २३६/४॥

ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः॥ शान्ति. २३६/५॥

निर्मुच्यमानः सूक्ष्मत्वाद् रूपाणीमानि पश्यतः।
शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः॥ शान्ति. २३६/१७॥

एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः॥ शान्ति. २४०/२॥

आत्मनो व्यापिनस्तात ज्ञानमेतद्नुत्तमम्।
तदेतदुपशान्तेन दान्तेनाध्ययनशीलिना॥ शान्ति. २४०/३॥

आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा।
योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः॥ शान्ति. २४०/४॥

कामं क्रोधं च लोभं च भयं स्पप्नं च पञ्चमम्।
क्रोधं शमेन जयति कामं संकल्पवर्जनात्॥ शान्ति. २४०/५॥

सत्त्वसंसेवनाद् धीरो निद्रामुच्छेतुमर्हति।
धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा॥ शान्ति. २४०/६॥

चक्षुः श्रोत्रे च मनसा मनोवाचं च कर्मणा।
अप्रमादाद् भयं जह्याद् दम्भं प्राज्ञोपसेवनात्॥ शान्ति. २४०/७॥

वर्जयेदुशतीं वाचं हिंसायुक्तां मनोनुदाम्॥ शान्ति. २४०/९॥

ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा॥ शान्ति. २४०/१०॥

शौचमाचारसंशुद्धिरिन्द्रियाणां च निग्रहः।
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति॥ शान्ति. २४०/११॥

धूतपाम्पा तु तेजस्वी लघ्वाहरो जितेन्द्रियः।
कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम्॥ शान्ति. २४०/१३॥

मनसश्चेन्द्रियाणां च कृत्वैकाग्य्रं समाहितः।
पूर्वरात्रापरार्धं च धारयेन्मन आत्मनि॥ शान्ति. २४०/१४॥

जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम्।
ततोऽस्य स्रवते प्रज्ञा दृतेः पादादिवोदकम्॥ शान्ति. २४०/१५॥

मनस्तु पूर्वमादद्यात् कुमीनमिव मत्स्यहा।
ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित्॥ शान्ति. २४०/१६॥

तत एतानि संयम्य मनसि स्थापयेद् यतिः।
तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत्॥ शान्ति. २४०/१७॥

विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान्॥ शान्ति. २४०/१९॥

वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि।
प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने।
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः॥ शान्ति. २४०/२३॥

प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः।
तांस्तत्वविदनादृत्य आत्मन्येव निवर्तयेत्॥ शान्ति. २४०/२४॥

येनोपायेन शक्येत संनियन्तुं चलं मनः।
तं च युक्तो निषेवेत न चैव विचलेत् ततः॥ शान्ति. २४०/२७॥

नाभिष्वजेत् परं वाचा कर्मणा मनसापि वा।
उपेक्षको यताहारो लब्धालब्धे समो भवेत्॥ शान्ति. २४०/२९॥

अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणि।
तावप्येतेन मार्गेण गच्छेतां परमां गतिम्॥ शान्ति. २४०/३४॥

निरापद्धर्म आचारो ह्यप्रमादोऽपराभवः॥ शान्ति. २६९/३६॥

प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः॥ शान्ति. २६९/४०॥

यथा समुद्रमभितः संश्रिताः सरितोऽपराः।
तथाद्या प्रकृतिर्योगादभिसंश्रियते सदा॥ शान्ति. २९८/३४॥

रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम्।
योगाच्छित्त्वा ततो दोषान् पञ्चैतान् प्राप्नुवन्ति तत्॥ शान्ति. ३००/११॥

अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः।
युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्यसंशयम्॥ शान्ति. ३००/३१॥

सुस्थेयं क्षुरधारासु निशितासु महीपते।
धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः॥ शान्ति. ३००/५४॥

कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते।
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम्॥ शान्ति. ३०१/५५॥

छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात्।
सत्त्वसंसेवनान्निद्रामप्रमादाद् भयं तथा॥ शान्ति. ३०१/५६॥

छिन्दति पञ्चमं श्वासमल्पहारतया नृप॥ शान्ति. ३०१/५७॥

इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः॥ शान्ति. ३०१/८८॥

ज्योतिरात्मनि नान्यत्र सर्वजन्तुषु तत् समम्।
स्वयं च शक्यते द्रष्टुं सुसमाहितचेतसा॥ शान्ति. ३२६/३२॥

संयोज्य मनसा ऽऽत्मानमीर्ष्यामुत्सृज्य मोहनीम्।
त्यक्त्वा कामं च मोहं च तदा ब्रह्मत्वमश्नुते॥ शान्ति. ३२६/३५॥

यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाप्ययम्।
समो भवति निर्द्वन्द्वो ब्रह्म सम्पद्यते तदा॥ शान्ति. ३२६/३६॥

प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः।
तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा॥ शान्ति. ३२६/३९॥

तमः परिगतं वेश्च यथा दीपेन दृश्यते।
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम्॥ शान्ति. ३२६/४०॥

न चायुक्तेन शक्योऽयं द्रष्टुं देहे महेश्वरः।
युक्तस्तु पश्यते बुद्ध्या संनिवेश्य मनो हृदि॥ अनु. ९६ दा. पा.॥

इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत्।
तीव्रं तप्त्वा तपः पूर्वं मोक्षयोगं समाचरेत्॥ आश्व. १९/१७॥

यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति।
तथा रूपमिवात्मानं साधु युक्तः प्रपश्यति॥ आश्व. १९/२१॥

इषीकां च यथा मुञ्जात् कश्चिन्निष्कृष्य दर्शयेत्।
योगी निष्कृष्य चात्मानं तथा पश्यति देहतः॥ आश्व. १९/२२॥

अन्यान्याश्चैव तनवो यथेष्टं प्रतिपद्यते।
विनिवृत्य जरां मृत्युं न शोचति न हृष्यति॥ आश्व. १९/२५॥

दुःखशोकमयैर्घोरैः सङ्गस्नेह समुद्भवैः।
न विचाल्यति युक्तात्मा निःस्पृहः शान्तमानसः॥ आश्व. १९/२८॥

सम्यग्युक्त्वा स आत्मानमात्मन्येव प्रतिष्ठते।
विनिवृत्तजरादुःखः सुखं स्वपिति चापि सः॥ आश्व. १९/३०॥

सम्युग्युक्तो यदाऽऽत्मानमात्मन्येव प्रपश्यति।
तदैव न स्पृहयते साक्षादपि शतक्रतोः॥ आश्व. १९/३२॥

समानव्यानयो र्मध्ये प्राणापानौ विचेरतुः॥ आश्व. २०/१५॥

तस्मिंल्लीने प्रलीयेत समानो व्यान एव च।
अपान प्राणयोर्मध्ये उदानो व्याप्य तिष्ठति।
तस्माच्छयानं पुरुषं प्राणापानौ च मुञ्चतः॥ आश्व. २०/१६॥

तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम्।
अग्निर्वैश्वानरो मध्ये सप्तधा दीव्यतेऽन्तरा॥ आश्व. २०/१७॥

घ्राणं जिह्वा च चक्षुश्च त्वक् च श्रोत्रं च पञ्चमम्।
मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः॥ आश्व. २०/१९॥

घ्रेयं दृश्यं च पेयं च स्पृश्यं श्रव्यं तथैव च।
मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम॥ आश्व. २०/२०॥

योगान्नास्ति परं सुखम्॥ आश्व. ३०/३१॥

ध्यानयोगमुपागम्य प्रसन्नमतयः सदा।
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवित्तमाः॥ आश्व. ५१/२३॥

चित्तं चित्तादुपागम्य मुनिरासीत संयतः।
यच्चित्तं तन्मयो वश्यं गुह्यमेतत् सनातनम्॥ आश्व. ५१/२७॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(योगः)&oldid=15507" इत्यस्माद् प्रतिप्राप्तम्