महाभारतसूक्तयः(राजधर्मः)

विकिसूक्तिः तः
Jump to navigation Jump to search

दयावान् सर्वभूतेषु हितो रक्तोऽनसूयकः॥ वन. १९१/२३॥

सत्यवादी मृदुर्दान्तः प्रजानां रक्षणे रतः।
चर धर्मं त्यजाधर्मं पितॄन् देवांश्च पूजय॥ वन. १९१/२४॥

अलं ते मानमाश्रित्य सततं परवान् भव॥ वन. १९१/२५॥

जयेत् कदर्यं दानेन सत्येनानृतवादिनम्।
क्षमया क्रूरकर्माणमसाधुं साधुना जयेत्॥ वन. १९४/६॥

नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः॥ वन. २४९/३९॥

न चानुशिष्याद् राजानमपृच्छन्तं कदाचन।
तूष्णीं त्वेनमुपासीत काले समभिपूजयेत्॥ विराट. ४/१६॥

नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कदाचन।
अन्तःपुर चरा ये च द्वेष्टि यानहिताश्च ये॥ विराट. ४/१८॥

विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि।
एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित्॥ विराट. ४/१९॥

न हि पुत्रं न नप्तारं न भ्रातरमरिंदमाः।
समतिक्रान्तमर्यादं पूजयन्ति नराधिपाः॥ विराट. ४/२१॥

यत्नाच्चोपचरेदेनमग्निवद् देववत् त्विह।
अनृतेनोपचीर्णो हि हन्यादेव न संशयः॥ विराट. ४/२२॥

यद् यद् भर्तानुयुञ्जीत तत् तदेवानुवर्तयेत्।
प्रमादमवलेपं च कोपं च परिवर्जयेत्॥ विराट. ४/२३॥

शूरोऽस्मि न दृप्तःस्याद् बुद्धिमानिति वा पुनः।
प्रियमेवाचरन् राज्ञः प्रियो भवति भोगवान्॥ विराट. ४/३२॥

न चोष्ठौ न भुजौ जानू न च वाक्यं समाक्षिपेत्।
सदा वातं च वाचं च ष्ठीवनं चाचरैच्छनैः॥ विराट. ४/३५॥

प्रगृहीतश्च योऽमात्यो निगृहीतस्त्वकारणैः।
न निर्वदति राजानं लभते सम्पदं पुनः॥ विराट. ४/४०॥

समवेषं न कुर्वीत नोच्चै संनिहितो वसेत्।
न मन्त्रं बहुधा कुर्यादेवं राज्ञः प्रियो भवेत्॥ विराट. ४/४८॥

न कर्माणि नियुक्तःसन् धनं किञ्चिदपि स्पृशेत्।
प्राप्नोति हि हरन् द्रव्यं बन्धनं यदि वा वधम्॥ विराट. ४/४९॥

मित्रता सर्वभूतेषु दानमध्ययनं तपः।
ब्राह्मणस्यैव धर्मः स्यान्न राज्ञो राजसत्तम॥ शान्ति. १४/१५॥

असतां प्रतिषेधश्च सतां च परिपालनम्।
एष राज्ञां परो धर्मः समरे चापलायनम्॥ शान्ति. १४/१६॥

यस्मिन् क्षमा च क्रोधश्च दानादाने भयाभये।
निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते॥ शान्ति. १४/१७॥

राज्यं हि सुमहत् तन्त्रं धार्यते नाकृतात्मभिः।
न शक्यं मृदुना वोढुमायासस्थानमुत्तमम्॥ शान्ति. ५८/२१॥

राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते॥ शान्ति. ५८/२२॥

बाह्वायत्तं क्षत्रियैर्मानवानां लोकश्रेष्ठं धर्ममासेवमानैः।
सर्वे धर्माः सोपधर्मास्त्रयाणां राज्ञो धर्मादिति वेदाच्छृणोमि॥ शान्ति. ६३/२४॥

यथा राजन् हस्तिपदे पदानि संलीयन्ते सर्वसत्त्वोद्भवानि।
एवं धर्मान् राजधर्मेषु सर्वान् सर्वावस्थान् सम्प्रलीनान् निबोध॥ शान्ति. ६३/२५॥

अल्पाश्रयानल्पफलान् वदन्ति धर्मानन्यान् धर्मविदो मनुष्याः।
महाश्रयं बहुकल्याणरूपं क्षात्रं धर्मं नेतरं प्राहुरार्याः॥ शान्ति. ६३/२६॥

सर्वे धर्मा राजधर्मप्रधानाः सर्वे वर्णाः पाल्यमाना भवन्ति।
सर्वस्त्यागो राजधर्मेषु राजंस्त्यागं धर्मं चाहुरग्य्रं पुराणम्॥ शान्ति. ६३/२७॥

मज्जेत् त्रयी दण्डनीतौ हतायां सर्वे धर्माः प्रक्षयेयुर्विबुद्धाः।
सर्वे धर्माश्चाश्रमाणां हताः स्युः क्षात्रे त्यक्ते राजधर्मे पुराणे॥ शान्ति. ६३/२८॥

सर्वे त्यागा राजधर्मेषु दुष्टाः सर्वा दीक्षा राजाधर्मेषु चोक्ताः।
सर्वा विद्या राजधर्मेषु युक्ताः सर्वे लोका राजधर्मे प्रविष्टाः॥ शान्ति. ६३/२९॥

विनष्टायां दण्डनीत्यां राजधर्मे निराकृते।
सम्प्रमुह्यन्ति भूतानि राजदौरात्म्यतोऽनघ॥ शान्ति. ६५/२४॥

धर्मे स्थिता सत्त्ववीर्या धर्मसेतुवटारका।
त्यागवाताध्वगा शीघ्रा नौस्तं संतारयिष्यति॥ शान्ति. ६६/३७॥

अगतीकगतिर्ह्येषा पापा राजोपसेविनाम्॥ शान्ति. ८२/२४॥

अग्निं दीप्तमिवासीदेद् राजानमुपशिक्षितः॥ शान्ति. ८२/२८॥

दुर्व्याहृताच्छङ्कमानो दुष्कृताद् दुरधिष्ठितात्।
दुरासिताद् दुर्व्रजितादिङ्गितादङ्ग चेष्टितात्॥ शान्ति. ८२/३०॥

देवतेव सर्वार्थान् कुर्याद् राजा प्रसादितः।
वैश्वानर इव क्रुद्ध समूलमपि निर्दहेत्॥ शान्ति. ८२/३१॥

अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते।
राजदुर्गावतरणे नोपायं पण्डिता विदुः॥ शान्ति. ८२/४१॥

राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते।
स्वामिनं त्वनुवर्तन्ते वृत्त्यर्थमिह मन्त्रिणः॥ शान्ति. ८३/५१॥

यदा राजा शास्ति नरानशिष्टां स्तदा राज्यं वर्धते भूमिपस्य॥ शान्ति. ९१/२८॥

संविभज्य यदा भुङ्क्ते नामात्यानवमन्यते।
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते॥ शान्ति. ९१/३१॥

त्रायते हि यदा सर्वं वाचा कायेन कर्मणा।
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते॥ शान्ति. ९१/३२॥

पापमाचरतो यत्र कर्मणा व्याहृतेन च।
प्रियस्यापि न मृष्येत स राज्ञो धर्म उच्यते॥ शान्ति. ९१/३५॥

यदा शारणिकान् राजा पुत्रवत् परिरक्षति।
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते॥ शान्ति. ९१/३६॥

कृपणानाथवृद्धानां यदाश्रु परिमार्जति।
हर्षं संजनयन् नृणां स राज्ञो धर्म उच्यते॥ शान्ति. ९१/३८॥

विवर्धयति मित्राणि तथारींश्चापि कर्षति।
सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते॥ शान्ति. ९१/३९॥

सत्यं पालयति प्रित्या नित्यं भूमिं प्रयच्छति।
पूजयेदतिथीन् भृत्यान् स राज्ञो धर्म उच्यते॥ शान्ति. ९१/४०॥

संग्रहः सर्वभूतानां दानं च मधुरं वचः।
पौरजानपदाश्चैव गोप्तव्यास्ते यथासुखम्॥ शान्ति. ९१/४७॥

हृतं कृपणवित्तं हि राष्ट्रं हन्ति नृपश्रियम्।
दद्याच्च महतो भोगान् क्षुद्भयं प्रणुदेत् सताम्॥ अनुशासन. ६१/२६॥

यानि स्वादूनि भोज्यानि समवेक्ष्यन्ति बालकाः।
नाश्नन्ति विधिवत् तानि किं नु पापतरं ततः॥ अनुशासन. ६१/२७॥

धिक् तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति।
द्विजोऽन्यो वा मनुष्योऽपि शिविराह वचो यथा॥ अनु. ६१/२७॥

क्रोशन्त्यो यस्य वै राष्ट्रादिध्रयन्ते तरसा स्त्रियः।
क्रोशतां पतिपुत्राणां मृतोऽसौ न च जीवति॥ अनुशासन. ६१/३१॥

अरक्षितारं हर्तारं विलोप्तारमनायकम्।
तं वै राजकलिं हन्युः प्रजाः सन्नह्य निर्घृणम्॥ अनुशासन. ६१/३२॥

राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम्॥ अनुशासन. ६२/४०॥

विद्यावृद्धान् सदैव त्वमुपासीथा युधिष्ठिर।
क्षुणुयास्ते च यद् ब्रूय्रुः कुर्याश्चैवाविचारयन्॥ आश्रमवास. ५/१०॥

इन्द्रियाणि च सर्वाणि वाजिवत् परिपालय।
हितायैव भविष्यन्ति रक्षितं द्रविणं यथा॥ आश्रमवास. ५/१३॥

चक्रवत् तात कार्याणां पर्यायो दृश्यते सदा।
कोशस्य निचये यत्नं कुर्वीथा न्यायतः सदा॥ आश्रमवास. ५/३६॥

साधुसंग्रहणाच्चैव पापनिग्रहणात् तथा।
दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा॥ आश्रमवास. ६/१७॥

सर्वथैव महाराज शरीरं धारयेदिह।
प्रेत्य चेह च कर्तव्यमात्मनिः श्रेयसं परम्॥ आश्रमवास. ७/१८॥