महाभारतसूक्तयः(राजनीतिः)
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः।
अच्छिद्रश्छिद्रदर्शी स्यात् परेषां विवरानुगः॥ आदि. १३९/६॥
नासम्यक्कृतकारी स्यादुपक्रम कदाचन।
कण्टको ह्यापि दुश्छिन्न आस्रावं जनयेच्चिरम्॥ आदि. १३९/९॥
वधमेव प्रशंसन्ति शत्रूणामपकारिणाम्॥ आदि. १३९/१०॥
नावज्ञेयो रिपुस्तात दुर्बलोऽपि कथंचन॥ आदि. १३९/११॥
वहेदमित्रं स्कन्धेन यावत् कालस्य पर्ययः॥ आदि. १३९/२१॥
भयेन भेदयेद् भीरुं शूरमञ्जलिकर्मणा॥ आदि. १३९/५०॥
लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा॥ आदि. १३९/५१॥
पुत्रः सखा वा भ्राता व पिता वा यदि वा गुरुः।
रिपुस्थानेषु वर्तन्तो हन्तव्या भूतिमिच्छता॥ आदि. १३९/५२॥
क्रुद्धोऽप्यक्रुद्धरूपः स्यात् स्मित पूर्वाभिभाषिता।
न चाप्यन्यमपध्वंसेत् कदाचित् कोपसंयुतः॥ आदि. १३९/५५॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वासाद् भयमुत्पन्नं मूलान्यपि निकृन्तति॥ आदि. १३९/६२॥
अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम्।
आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता॥ आदि. १३९/६७॥
सुपुष्पितः स्यादफलः फलवान् स्याद् दुरारुहः।
आमः स्यात् पक्वसंकाशो न च जीर्येत् कर्हिचित्॥ आदि. १३९/६८॥
अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनुसूयिता।
अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सह॥ आदि. १३९/७१॥
न संशयमनारुह्य नरो भद्राणि पश्यति।
संशयं पुनरारुह्य यदि जीवति पश्यति॥ आदि. १३९/७३॥
योऽरिणा सह संधाय शयीत कृतकृत्यवत्।
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते॥ आदि. १३९/७५॥
नार्थिकोऽर्थिनमभ्येति कृतार्थे नास्ति संगतम्।
तस्मात् सर्वाणि साध्यानि सावशेषाणि कारयेत्॥ आदि. १३९/७९॥
नास्य कृत्यानि बुध्येरन् मित्राणि रिपवस्तथा।
आरब्धान्येव पश्येरन् सुपर्यवसितान्यपि॥ आदि. १३९/८१॥
भीतवत् संविधातव्यं यावद् भयमनागतम्।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत्॥ आदि. १३९/८२॥
दण्डेनोपनतं शत्रुमनुगृह्णाति यो नरः।
स मृत्युमुपगृह्णीयाद् गर्भमश्वतरी यथा॥ आदि. १३९/८३॥
अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम्।
न तु बुद्धिक्षयात् किंचिदतिक्रामेत् प्रयोजनम्॥ आदि. १३९/८४॥
तालवत् कुरुते मूलं बालः शत्रुरुपेक्षितः।
गहनेऽग्निरिवोत्सृष्टः क्षिप्रं संजायते महान्॥ आदि. १३९/८६॥
आशां कालवतीं कुर्यात् कालं विध्नेन योजयेत्।
विघ्नं निमित्ततो ब्रूयान्निमित्तं वापि हेतुतः॥ आदि. १३९/८८॥
लोकवृत्ताद् राजवृत्तमन्यदाह बृहस्पतिः।
तस्माद् राज्ञाप्रमत्तेन स्वार्थश्चिन्त्यः सदैव हि॥ सभा. ५५/६॥
प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रबाधते।
तद् वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्॥ सभा. ५५/९॥
शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका।
योवै संतापयति यं स शत्रुः प्रोच्यते नृप॥ सभा. ५५/१०॥
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥ सभा. ५५/१४॥
राज्ञां हि चित्तानि परिप्लुतानि सान्त्वं दत्वा मुसलैर्घातयन्ति॥ सभा. ६४/१२॥
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः क्षमां कुर्वन् कालमुपासते यः।
संवर्धयन् स्तोकमिवाग्निमात्मवान् स वै भुङ्क्ते पृथिवीमेक एव॥ वन. ५/१९॥
सत्यं श्रेष्ठं पाण्डव विप्रलापं तुल्यं चान्नं सह भोज्यं सहायैः।
आत्मा चैषामग्रतो न स्म पूज्य एवं वृत्ति र्वर्धते भूमिपालः॥ वन. ५/२१॥
मृदुना दारुणं हन्ति मृदुना हन्त्यदारुणम्।
नासाध्यं मृदुना किंचित् तस्मात् तीव्रतरं मृदु॥ वन. २८/३१॥
धार्मिकान् धर्मकार्येषु अर्थकार्येषु पण्डितान्।
स्त्रीषु क्लीबान् नियुञ्जीत क्रूरान् क्रूरेषु कर्मसु॥ वन. १५०/४६॥
मन्त्रभेदस्य षट् प्राज्ञो द्वाराणीमानि लक्षयेत्।
अर्थसंततिकामश्च रक्षेदेतानि नित्यशः॥ उद्योग. ३९/३६॥
मदं स्वप्नमविज्ञानमाकारं चात्मसम्भवम्।
दुष्टामात्येषु विश्रम्भं दूताच्चाकुशलादपि॥ उद्योग. ३९/३७॥
हीयमानेन वै सन्धिः पर्येष्टव्यः समेन वा।
विग्रहो वर्धमानेन मतिरेषा बृहस्पतेः॥ शल्य. ४/४३॥
न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते।
स क्षिप्रं भ्रश्यते राज्यान्न श्रेयोऽनुविन्दते॥ शल्य. ४/४५॥
परिश्रान्ते विदीर्णे वा भुञ्जाने वापि शत्रुभिः॥ सौप्तिक. १/५३॥
प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम्।
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम्॥ सौप्तिक. १/५४॥
भिन्नयोधं बलं यच्च द्विधा युक्तं च यद् भवेत्।
एकाङ्गेनापि सम्भूतः शत्रुर्दुर्गमुपाश्रितः।
सर्वं तापयते देशमपि राज्ञः समृद्धिनः॥ शान्ति. ५८/१८॥
शक्त्यान्नदानं सततं तितिक्षार्जव मार्दवम्।
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम्॥ सौप्तिक. ८१/२१॥
न जातु बलवान् भूत्वा दुर्बले विश्वसेत् क्वचित्।
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः॥ शान्ति. ९३/३७॥
बलिना विग्रहो राजन् न कदाचित् प्रशस्यते।
बलिना विग्रहो यस्य कुतो राज्यं कुतः सुखम्॥ शान्ति. १३९/१११॥
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम्।
आपदास्पदकाले तु कुर्वीत न विचारयेत्॥ शान्ति. १४०/१२॥
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः।
प्राप्तकालं तु विज्ञाय भिन्द्याद् घटमिवाश्मनि॥ शान्ति. १४०/१८॥
कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः।
नटस्य भक्ति मित्रस्य यच्छ्रेयस्तत् समाचरेत्॥ शान्ति. १४०/२१॥
नात्मछिद्रं रिपुर्विद्याद् विद्याच्छिद्रं परस्य तु।
गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरमात्मनः॥ शान्ति. १४०/२४॥
बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत्।
वृकवच्चावलुम्पेत शरवच्च विनिष्पतेत्॥ शान्ति. १४०/२५॥
कुर्यात् तृणमयं चापं शयीत मृगशायिकाम्।
अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत्॥ शान्ति. १४०/२६॥
देशकालौ समासाद्य विक्रमेत विचक्षणः।
देशकालव्यतीतो हि विक्रमो निष्फलो भवेत्॥ शान्ति. १४०/२८॥
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा॥ शान्ति. १४०/३०॥
आशां कालवतीं कुर्यात् तां च विघ्नेन योजयेत्।
विघ्नं निमित्ततो ब्रुयान्निमित्तं चापि हेतुतः॥ शान्ति. १४०/३२॥
अनागतं विजानीयाद् यच्छेद् भयमुपस्थितम्।
पुनर्वृद्धिभयात् किंचिदनिवृतं निशामयेत्॥ शान्ति. १४०/३५॥
प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम्।
अनागतसुखाशा च नैव बुद्धिमतां नयः॥ शान्ति. १४०/३६॥
कर्मणा येन तेनैव मृदुना दारुणेन च।
उद्धरेद् दीनमात्मानं समर्थो धर्ममाचरेत्॥ शान्ति. १४०/३८॥
ये सपत्नाः सपत्नानां सर्वांस्तानुपसेवयेत्।
आत्मनश्चापि बोद्धव्याश्चारा विनिहताः परैः॥ शान्ति. १४०/३९॥
पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत्।
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिमिच्छता॥ शान्ति. १४०/४७॥
नाच्छित्वा परमर्माणि नाकृत्वा कर्म दारुणम्।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्॥ शान्ति. १४०/५०॥
नास्ति जात्या रिपुर्नाम मित्रं वापि न विद्यते।
सामर्थ्य योगाज्जायन्ते मित्राणि रिपवस्तथा॥ शान्ति. १४०/५१॥
अमित्रं नैव मुञ्चेत वदन्तं करुणान्यपि।
दुःखं तत्र न कर्तव्यं हन्यात् पूर्वापकारिणम्॥ शान्ति. १४०/५२॥
संग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता।
निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता॥ शान्ति. १४०/५३॥
निमन्त्रयीत सान्त्वेन सम्मानेन तितिक्षया।
लोकाराधनमित्येतत् कर्तव्यं भूतिमिच्छता॥ शान्ति. १४०/५५॥
न शुष्कवैरं कुर्वीत बाहुभ्यां न नदीं तरेत्।
अनर्थकमनायुष्यं गोविषाणस्य भक्षणम्।
दन्ताश्च परिमृज्यन्ते रसश्चापि न लभ्यते॥ शान्ति. १४०/५६॥
ॠणशेषमग्निशेषं शत्रुशेषं तथैव च।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न धारयेत्॥ शान्ति. १४०/५८॥
नासम्यक् कृतकारी स्याद्प्रमत्तः सदा भवेत्।
कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम्॥ शान्ति. १४०/६०॥
गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः।
अनुद्विग्नः काकशङ्की भुजङ्गचरितं चरेत्॥ शान्ति. १४०/६२॥
शूरमञ्जलिपातेन भीरुं भेदेन भेदयेत्।
लुब्धमर्थप्रदानेन समं तुल्येन विग्रहः॥ शान्ति. १४०/६३॥
मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च।
तीक्ष्णकाले भवेत् तीक्ष्णो मृदुकाले मृदुर्भवेत्॥ शान्ति. १४०/६५॥
मृदुनैव मृदुं हन्ति मृदुना हन्ति दारुणम्।
नासाध्यं मृदुना किंचित् तस्मात् तीक्ष्णतरो मृदुः॥ शान्ति. १४०/६६॥
पण्डितेन विरुद्धः सन् दूरोऽस्मीति नाश्वासेत्।
दीर्घो बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः॥ शान्ति. १४०/६८॥
न तत् तरेद् यस्य न पारमुत्तरेन्न तद्धरेत् यत् पुनराहरेत् परः।
न तत् खनेद् यस्य न मूलमुद्धरेन्न हन्याद् यस्य शिरो न पातयेत॥ शा. १४०/६९॥