महाभारतसूक्तयः(राजा)

विकिसूक्तिः तः
Jump to navigation Jump to search

अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम्।
व्यसनाद् विषयाक्रान्तं न भजन्ति नृपं प्रजाः॥ वन. २५१/५॥

अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामान्॥ उद्योग. २९/२७॥

यदा गृध्येत् परभूतौ नृशंसो विधिप्रकोपाद् बलमाददानः।
ततो राज्ञामभवद् युद्धमेतत् तत्र जात वर्म शस्त्रं धनुश्च॥ उद्योग. २९/२९॥

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः॥ उद्योग. ३४/२१॥

सुपुष्पितः स्यादफलः फलितः स्याद् दुरारुहः।
अपक्वः पक्वसंकाशो न तु शीर्येत कर्हिचित्॥ उद्योग. ३४/२४॥

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।
प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति॥ उद्योग. ३४/२५॥

यस्मात् त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव।
सागरान्तामपि महीं लब्ध्वा स परिहीयते॥ उद्योग. ३४/२६॥

पितृपैतामहं राज्यं प्राप्तवान् स्वेन कर्मणा।
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः॥ उद्योग. ३४/२७॥

धर्ममाचरतो राजा सद्भिश्चरितमादितः।
वसुधा वसुसम्पूर्णा वर्धते भूतवर्धिनी॥ उद्योग. ३४/२८॥

स एव यत्नः क्रियते परराष्ट्रविमर्दने।
स एव यत्नः कर्त्तव्यः स्वराष्ट्रपरिपालने॥ उद्योग. ३४/३०॥

धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्।
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते॥ उद्योग. ३४/३१॥

इन्द्राय स प्रणमते नमते यो बलीयसे॥ उद्योग. ३४/३७॥

कालो वा कारणं राज्ञो राजा वा कालकारणम्।
इति ते संशयो मा भूद् राजा कालस्य कारणम्॥ उद्योग. १३२/१६॥

दानेनान्यं बलेनान्यं तथा सूनृतया परम्।
सर्वतः प्रतिगृह्णीयाद् राज्यं प्राप्येह धार्मिकः॥ उद्योग. १३२/२९॥

कुनृपस्य द्राव्यते राष्ट्रं दुर्भिक्ष व्याधितस्करैः॥ द्रोण. ९५/२५॥

सर्वत्र सन्ति राजानः स्वं स्वं धर्ममनुव्रताः।
दुर्मनुष्यान् निगृह्णन्ति सन्ति सर्वत्र धार्मिकाः॥ कर्ण. ४५/४५॥

यादृशो जायते राजा तादृशोऽस्य जनो भवेत्॥ स्त्री. ८/३२॥

अधर्मो धर्मतां याति स्वामी चेद् धार्मिको भवेत्।
स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः॥ स्त्री. ८/३३॥

राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते।
देशकालविभागं च परं श्रेयः स विन्दति॥ स्त्री. १३/६॥

राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम्।
अशरण्यः प्रजानां यः स राजा कलिरुच्यते॥ शान्ति. १२/२९॥

यो हि राज्ये स्थितः शश्वद् वशी तुल्यप्रियाप्रियः॥ शान्ति. २१/१३॥

क्षत्रियो यज्ञशिष्टाशी राजा शास्त्रार्थतत्त्ववित्।
असाधुनिग्रहरतः साधूनां प्रग्रहे रतः॥ शान्ति. २१/१४॥

धर्मवर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मतः।
पुत्रसंक्रामितश्रीश्च वने वन्येन वर्तयन्॥ शान्ति. २१/१५॥

कामक्रोधावनदृत्य पितेव समदर्शनः।
शास्त्राजां बुद्धिमास्थाय युज्यते नैनसा हि सः॥ शान्ति. २४/१४॥

तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः।
पापैः सह न संद्ध्याद् राज्यं पण्यं न कारयेत्॥ शान्ति. २४/१६॥

शूराश्चर्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर।
गोमिनो धनिनश्चैव परिपाल्या विशेषतः॥ शान्ति. २४/१७॥

गुणवाञ्शीलवान् दान्तो मृदुर्धर्म्यो जितेन्द्रियः।
सुदर्शः स्थूललक्ष्यश्च न भ्रश्यते सदा श्रियः॥ शान्ति. ५६/१९॥

लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः।
सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम्॥ शान्ति. ५७/११॥

राज्ञः परैः परिभवः सर्वेषामसुखावहः॥ शान्ति. ६७/३६॥

राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते।
प्रजा राजभयादेव न खादन्ति परस्परम्॥ शान्ति. ६८/८॥

यदा ह्यासीदतः पापान् दहत्युग्रेण तेजसा।
मिथ्योपचरितो राजा तदा भवति पावकः॥ शान्ति. ६८/४२॥

यदा पश्यति चारेण सर्वभूतानि भूमिपः।
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः॥ शान्ति. ६८/४३॥

अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान्।
सपुत्रपौत्रान् सामात्यांस्तदा भवति सोऽन्तकः॥ शान्ति. ६८/४४॥

यदा त्वधार्मिकान् सर्वांस्तीक्ष्णैर्दण्डै र्नियच्छति।
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा॥ शान्ति. ६८/४५॥

यदा तु धनधाराभिस्तर्पयत्युपकारिणः।
आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम्॥ शान्ति. ६८/४६॥

श्रियं ददाति कस्मैचित् कस्माच्चिदपकर्षति।
तदा वैश्रवणो राजा लोके भवति भूमिपः॥ शान्ति. ६८/४७॥

नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा।
धर्म्यमाकाङ्क्षता लोकमीश्वरस्यानसूयता॥ शान्ति. ६८/४८॥

न हि राज्ञः प्रतीपानि कुर्वन् सुखमवाप्नुयात्।
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत्॥ शान्ति. ६८/४९॥

राजन् प्रतिग्रहो राज्ञां मध्वासादो विषोपमः॥ अनु. ९३/३१॥

कुर्यात् कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः।
न तु राजाभिपन्नस्य शेषं क्वचन विद्यते॥ शान्ति. ६८/५०॥

तस्मात् बुभूषुर्नियतो जितात्मा नियतेन्द्रियः।
मेधावी स्मृतिमान् दक्षः संश्रये महीपतिम्॥ शान्ति. ६८/५५॥

आर्जवेन च सम्पन्नो धृत्या बुद्ध्या च भारत।
यथार्थं प्रतिगृह्णीयात् कामक्रोधौ च वर्जयेत्॥ शान्ति. ७१/६॥

मालाकारोपमो राजन् भव माऽऽङ्गारिकोपमः॥ शान्ति. ७१/२०॥

एष एव परो धर्मो यद् राजा रक्षति प्रजाः॥ शान्ति. ७१/२६॥

इन्द्रो राजा यमो राजा धर्मो राजा तथैव च।
राजा विभर्ति रूपाणि राज्ञा सर्वमिदं धृतम्॥ शान्ति. ७२/२५॥

दानशीलो भवेद् राजा यज्ञशीलश्च भारत।
उपवास तपः शीलः प्रजानां पालने रतः॥ शान्ति. ७५/२॥

राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते।
यद् यदाचरते राजा तत् प्रजानां स्म रोचते॥ शान्ति. ७५/४॥

न हि कामत्मना राज्ञा सततं कामबुद्धिना।
नृशंसेनातिलुब्धेन शक्यं पालयितुं प्रजाः॥ शान्ति. ७५/१४॥

यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः सदा नरः॥ शान्ति. ८२/१॥

राजैव कर्ता भूतानां राजैव च विनाशकः।
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः॥ शान्ति. ९१/९॥

नापत्रपेत प्रश्नेषु नाविभाव्यां गिरं सृजेत्।
न त्वरेत न चासूयेत् तथा संगृह्यते परः॥ शान्ति. ९३/१०॥

यस्तु निःश्रेयसं श्रुत्वा ज्ञानं तत् प्रतिपद्यते।
आत्मने मतमुत्सृज्य तं लोकोऽनुविधीयते॥ शान्ति. ९३/२८॥

यदार्यजनविद्विष्टं कर्म तन्नाचरेद् बुधः।
यत् कल्याणमभिध्यायेत् तत्रात्मानं नियोजयेत्॥ शान्ति. ९४/१०॥

निग्रहेण च पापानां साधूनां संग्रहेण च।
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः॥ शान्ति. ९७/३॥

यो भूतानि धनाक्रान्त्या वधात् क्लेशाच्च रक्षति।
दस्युभ्यः प्राणदानात् स धनदः सुखदो विराट्॥ शान्ति. ९७/८॥

यस्य नार्तो जनपदः सन्निकर्षगतः सदा।
अक्षुद्रः सत्पथालम्बी स राजा राज्यभाग्भवेत्॥ शान्ति. ११५/१९॥

आलस्यं चैव निद्रा च व्यसनान्यतिहासिता।
यस्यैतानि न विद्यन्ते तस्यैव सुचिरं मही॥ शान्ति. ११८/२६-२७ दा. पा.॥

वृद्धसेवी महोत्साहो वर्णानां चैव रक्षिता।
धर्मचर्या सदा यस तस्येयं सुचिरं मही॥ शान्ति. ११८/२६-२७ दा. पा.॥

अमोधक्रोधहर्षस्य स्वयम् कृत्यान्ववेक्षितुः।
आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा॥ शान्ति. १२०/३०॥

संचयान्न विसर्गी स्याद् राजा शास्त्रविदात्मवान्॥ शान्ति. १२०/३५॥

राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम्।
तन्मूलं सर्व धर्माणां धर्ममूलाः पुनः प्रजाः॥ शान्ति. १३०/३५॥

श्रियो हि कारणाद् राजा सत्क्रियां लभते पराम्।
सास्य गूहति पापानि वासो गुह्यमिव स्त्रियाः॥ शान्ति. १३३/७॥

धर्माधर्मफले जातु ददर्शेह न कश्चन।
बुभूषेद् बलमेवैतत् सर्वं बलवतो वशे॥ शान्ति. १३४/३॥

यत्र नास्ति बलात्कारः स राजा तीव्रशासनः।
भीरेव नास्ति सम्बन्धो दरिद्रं यो बुभूषते॥ शान्ति. १३९/९७॥

भार्या देशोऽथ मित्राणि पुत्रसम्बन्धिबान्धवाः।
एते सर्वे गुणवति धर्मनेत्रे महीपतौ॥ शान्ति. १३९/९८॥

अधर्मज्ञस्य विलयं प्रजा गच्छन्ति निग्रहात्॥ शान्ति. १३९/९९॥

न रक्षति प्रजाः सम्यग् यः स पार्थिव तस्करः॥ शान्ति. १३९/१००॥

माता पिता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः।
सप्त राज्ञो गुणानेतान् मनुराह प्रजापतिः॥ शान्ति. १३९/१०३॥

पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पनः।
तस्मिन् मिथ्याविनीतो हि तिर्यग् गच्छति मानवः॥ शान्ति. १३९/१०४॥

सम्भावयति मातेव दीनमप्युपपद्यते।
दहत्यग्निरिवानिष्टान् यमेयन्नसतो यमः॥ शान्ति. १३९/१०५॥

इष्टेषु विसृजन्नर्थान् कुबेर इव कामदः।
गुरुर्धर्मोपदेशेन गोप्ता च परिपालयन्॥ शान्ति. १३९/१०६॥

यस्तु रञ्जयते राजा पौरजानपदान् गुणैः।
न तस्य भ्रमते राज्यं स्वयं धर्मानुपालनात्॥ शान्ति. १३९/१०७॥

नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः।
अनर्थै र्विप्रलुप्यन्ते स गच्छति पराभवम्॥ शान्ति. १३९/१०९॥

प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम्।
स सर्वफलभाग् राजा स्वर्गलोके महीयते॥ शान्ति. १३९/११०॥

नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः।
अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः॥ शान्ति. १४०/७॥

वाङ्मात्रेण विनीतः स्याद् हृदयेन यथा क्षुरः।
श्र्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत्॥ शान्ति. १४०/१३॥

सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः॥ शान्ति. २६७/२५॥

श्रेयसः श्रेयसोऽप्येवं वृत्तं लोकोऽनुर्वते।
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः॥ शान्ति. २६७/२६॥

आत्मानमसमाधाय समाधित्सति यः परान्।
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम्॥ शान्ति. २६७/२७॥

आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता।
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान्॥ शान्ति. २६७/२९॥

दशसूनासमं चक्रं दशचक्रसमो ध्वजः।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः॥ अनु. १२५/९॥

राजायत्तं हि यत् सर्वे लोकवृत्तं शुभाशुभम्।
महतस्तपसो देवि फलं राज्यमिति स्मृतम्॥ अनु. १४५ दा. पा. I॥

आत्मानमेव प्रथमं विनयैरुपपादयेत्।
अनुभृत्यान् प्रजाः पश्चादित्येष विनयक्रमः॥ अनु. १४५ दा. पा. I॥

पञ्चैव स्ववशे कृत्वा तदर्थान् पञ्च शोषयेत्।
षडुत्सृज्य यथायोगं ज्ञानेन विनयेन च।
शास्त्रचक्षुर्नयपरो भूत्वा भृत्यान् समाहरेत्॥ अनु. १४५ दा. पा. I॥

प्रजाकार्यं तु तत्कार्यं प्रजासौख्यं तु तत्सुखम्।
प्रजाप्रियं प्रियं तस्य स्वहितं तु प्रजा हितम्।
प्रजार्थं तस्य सर्वस्वमात्मार्थं न विधीयते॥ अनु. १४५ दा. पा. I॥

राजा राष्ट्रहितापेक्षं सत्यधर्माणि कारयेत्॥ अनु. १४५ दा. पा. I॥

अनाथान् व्याधितान् वृद्धान् स्वदेशे पोषयेन्नृपः॥ अनु. १४५ दा. पा. I॥

व्यसनेभ्यो बलं रक्षेन्नयतो व्ययतोऽपि वा।
प्रायशो वर्जयेद् युद्धं प्राणरक्षणकारणात्॥ अनु. १४५ दा. पा. I॥

अभियुक्तो बलवता कुर्यादापद्विधिं नृपः।
अनुनीय तथा सर्वान् प्रजानां हितकारणात्॥ अनु. १४५ दा. पा. I॥

क्षुद्राः पृथिव्यां बहवो राज्ञां बहुविनाशकाः।
तस्मात् प्रमादं सुश्रोणि न कुर्यात् पण्डितो नृपः॥ अनु. १४५ दा. पा. II॥

सम्प्रहासश्च भृत्येषु न कर्तव्यो नराधिपैः।
लघुत्वं चैव प्राप्नोति आज्ञा चास्य निवार्यते॥ अनु. १४५ दा. पा. III॥

प्रमादाद्धन्यते राजा लोभेन च वशीकृतः।
तस्मात् प्रमादं लोभं च न कुर्यान्न विश्वसेत्॥ अनु. १४५ दा. पा. III॥

अशिष्टशासनं धर्मः शिष्टानां परिपालनम्॥ अनु. १४५ दा. पा. III॥

अवध्या ब्राह्मणा गावो दूताश्चैव पिता तथा।
विद्यां ग्राहयते यश्च ये च पूर्वोपकारिणः
स्त्रियश्चैव न हन्तव्या यश्च सर्वातिथिनरः॥ अनु. १४५ दा. पा. III॥

पूजार्हा हि नराधिपाः॥ आश्व. ८६/२॥

फलभाजो हि राजानः कल्याणस्येतरस्य वा॥ आश्रमवास. ३/४०॥

एष एव परो धर्मः राजर्षीणां युधिष्ठिर।
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम्॥ आश्रमवास. ४/१२॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(राजा)&oldid=15515" इत्यस्माद् प्रतिप्राप्तम्