महाभारतसूक्तयः(विवेकः)

विकिसूक्तिः तः
Jump to navigation Jump to search

येषां शास्त्रानुगा बुद्धि र्न ते मुह्यन्ति भारत॥ आदि. १/२४४॥

आत्मानं च परांश्चैव त्रायते महतो भयात्।
क्रुध्यन्तमप्रतिक्रुध्यन् द्वयोरेष चिकित्सकः॥ वन. २९/९॥

प्रक्षीयते धनोद्रेको जनानामविजानताम्॥ वन. १९२/२८॥

यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति।
स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि॥ वन. २५१/४॥

क्षुद्राक्षेणेव जालेन झषापिहितावुरू।
कामश्च राजन् क्रोधश्च तौ प्रज्ञानं विलुम्पतः॥ उद्योग. ३४/६६॥

क्वासे क्व च गमिष्यामि को न्वहं किमिहास्थितः।
कस्मात् किमनुशोचेयमित्येवं स्थापयेन्मनः॥ शान्ति. २८/४०॥

ये च बुद्धिसुखं प्राप्ता द्वन्द्वातीता विमत्सराः।
तान् नैवार्था न चानर्था व्यथयन्ति कदाचन॥ शान्ति. १७४/३५॥

उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये।
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यति॥ शान्ति. १७४/५३॥

शोककाले शुचो मा त्वं हर्षकाले च मा हृषः॥ शान्ति. २२७/६५॥

अतीतानागतं हित्वा प्रत्युत्पन्नेन वर्तय।
ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च॥ शान्ति. २२७/१०४॥

स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति।
चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत्।
चिरेण हि कृतं मित्रं चिरं धारणमर्हति॥ शान्ति. २६६/६९॥

रागे दर्पे च माने च द्रोहे पापे च कर्मणि।
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते॥ शान्ति. २६६/७०॥

बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च।
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते॥ शान्ति. २६६/७१॥

एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः।
चिरेण निश्चयं कृत्वा चिरं न परितप्यते॥ शान्ति. २६६/७३॥

चिरं धारयते रोषं चिरं कर्म नियच्छति।
पश्चात्तापकरं कर्म न किंचिदुपपद्यते॥ शान्ति. २६६/७४॥

चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत्।
चिरं धर्म निषेवेत कुर्याच्चान्वेषणं चिरम्॥ शान्ति. २६६/७५॥

चिरमन्वास्य विदुषश्चिरं शिष्टान् निषेव्य च।
चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम्॥ शान्ति. २६६/७६॥

ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम्।
चिरं पृष्टोऽपि च ब्रूयाच्चिरं न परितप्यते॥ शान्ति. २६६/७७॥