महाभारतसूक्तयः(विश्वासः)

विकिसूक्तिः तः
Jump to navigation Jump to search

स्त्रीषु राजसु सर्पेषु स्वाध्यायप्रभुशत्रुषु।
भोगेष्वायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति॥ उद्योग. ३७/५७॥

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्॥ शान्ति. १३८/१४४॥

विश्वासाद् भयमुत्पन्नं मूलान्यपि निकृन्तति॥ उद्योग. ३८/९॥

स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि।
चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके॥ उद्योग. ३९/७३॥

गुणयुक्तेऽपि नैकस्मिन् विश्वसेत विचक्षणः॥ शान्ति. २४/१८॥

अनित्यचित्तः पुरुषस्तस्मिन् को जातु विश्वसेत्॥ शान्ति. ८०/९॥

एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः।
अविश्वासश्च सर्वत्र मृत्युना च विशिष्यते॥ शान्ति. ८०/१०॥

अकालमृत्युर्विश्वासो विश्वसन् हि विपद्यते।
यस्मिन् करोति विश्वासमिच्छतस्तस्य जीवति॥ शान्ति. ८०/११॥

तस्मात् विश्वसितव्यं च शङ्कितव्यं च केषुचित्॥ शान्ति. ८०/१२॥

विश्वासयेत् परांश्चैव विश्वसेच्च न कस्यचित्।
पुत्रेष्वपि राजेन्द्र विश्वासो न प्रशस्यते॥ शान्ति. ८५/३३॥

अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते॥ शान्ति. ८५/३४॥

नित्यं विश्वासयेदन्यान् परेषां तु न विश्वसेत्॥ शान्ति. १३८/१९५॥

निश्चयः स्वार्थशास्त्रेषु विश्वासश्चासुखोदयः॥ शान्ति. १३९/७०॥

नापरीक्ष्य च विश्वसेद्॥ शान्ति. १४०/४३॥

द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित्॥ वन. १५७/२१॥

को वा समयभेत्तारं बुधः सम्मन्तुमर्हति॥ शल्य. ६४/१४॥