महाभारतसूक्तयः(वीरता)

विकिसूक्तिः तः
Jump to navigation Jump to search

माऽऽत्मानमवमन्यस्व मैनमल्पेन बीभरः।
मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंहर॥ उद्योग. १३३/७॥

अप्यहेरारुजन् दंष्ट्रामाश्वेव निधनं व्रज।
अपि वा संशयं प्राप्य जीवितेऽपि पराक्रमः॥ उद्योग. १३३/१०॥

मुहूर्त्तं ज्वलितं श्रेयो न च धूमायितं चिरम्॥ उद्योग. १३३/१५॥

उद्भावयस्व वीर्यं वा तां वा गच्छ गतिं ध्रुवाम्॥ उद्योग. १३३/१८॥

कुरु सत्त्वं च मानं च विद्धि पौरुषमात्मनः॥ उद्योग. १३३/२१॥

मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान्।
ज्वल मूर्धन्यमित्राणां मुहूर्त्तमपि वा क्षणम्॥ उद्योग. १३३/३१॥

सन्तोषो वै श्रियं हन्ति तथानुक्रोश एव च।
अनुत्थानभये चोभे निरीहो नाश्नुते महत्॥ उद्योग. १३३/३३॥

आयसं हृदयं कृत्वा मृगयस्व पुनः स्वयम्॥ उद्योग. १३३/३४॥

परं विषहते यस्मात् तस्मात् पुरुष उच्यते॥
तमाहुर्व्यर्थ नामानं स्त्रीवद् य इह जीवति॥ उद्योग. १३३/३५॥

स्वबाहुबलमाश्रित्य योऽभ्युज्जीवति मानवः।
स लोके लभते कीर्त्तिं परत्र च शुभां गतिम्॥ उद्योग. १३३/४५॥

एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम्॥ उद्योग. १३४/२३॥

उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु।
भविष्यतीत्येव मनः कृत्वा सततमव्यथैः॥ उद्योग. १३५/२९॥

स हि वीरोन्नतः शूरो यो भग्नेषु निवर्तते॥ द्रोण. २२/३॥

अनुक्त्वा विक्रमेद् यस्तु वै सत्पुरुषव्रतम्॥ द्रोण. १५८/१९॥

अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः॥ कर्ण. २४/७॥

शूरबाहुषु लोकोऽयं लम्बते पुत्रवत् सदा।
तस्मात् सर्वास्ववस्थासु शूरः सम्मानमर्हति॥ शान्ति. ९९/१७॥

न हि शौर्यात् परं किंचित् त्रिषु लोकेषु विद्यते।
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम्॥ शान्ति. ९९/१८॥

परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः।
अपि पञ्चाशतं शूरा निघ्नन्ति परवाहिनीम्॥ शान्ति. १०२/२०॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(वीरता)&oldid=15556" इत्यस्माद् प्रतिप्राप्तम्