महाभारतसूक्तयः(वृक्षः)

विकिसूक्तिः तः
Jump to navigation Jump to search

घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः।
तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते॥ शान्ति. १८४/१०॥

ऊष्मतो म्लायते पर्णं त्वक् फलं पुष्पमेव च।
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते॥ शान्ति. १८४/११॥

वाय्वग्न्यशनिनिर्घोषैः फलं पुष्पं विशीर्यते।
श्रोत्रेन गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः॥ शान्ति. १८४/१२॥

वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति।
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात् पश्यन्ति पादपाः॥ शान्ति. १८४/१३॥

पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि।
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः॥ शान्ति. १८४/१४॥

पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात्।
व्याधिप्रतिक्रियात्वाच्च विद्यते रसनं द्रुमे॥ शान्ति. १८४/१५॥

वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्।
तथा पवनसंयुक्तः पादैः पिबति पादपः॥ शान्ति. १८४/१६॥

सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात्।
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते॥ शान्ति. १८४/१७॥

तेन तज्जलमादत्तं जरयत्यग्निमारुतौ।
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते॥ शान्ति. १८४/१८॥

स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः।
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः॥ अनु. ५८/२३॥

अतीतानागते चोभे पितृवंशं च भारत।
तारयेद् वृक्षरोपी च तस्माद् वृक्षांश्च रोपयेत्॥ अनु. ५८/२६॥

तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः।
परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान्॥ अनु. ५८/२७॥

पुष्पैः सुरगणान् वृक्षाः फलैश्चापि तथा पितॄन्।
छायया चातिथिं तात पूजयन्ति महीरुहाः॥ अनु. ५८/२८॥

किन्नरोरगरक्षांसि देवगन्धर्वमानवाः।
तथा ॠषिगणाश्चैव संश्रयन्ति महीरुहान्॥ अनु. ५८/२९॥

पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान्।
वृक्षदं पुत्रवद् वृक्षास्तारयन्ति परत्र तु॥ अनु. ५८/३०॥

तस्मात् तडागे सद्वृक्षा रोप्याः श्रेयोऽर्थिना सदा।
पुत्रवत् परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः॥ अनु. ५८/३१॥

पन्साम्रादयो वृक्षा गुल्मा मन्दारपूर्वकाः।
नागिकामल्लिकावल्ल्यो मालतीत्यादिका लताः।
वेणुक्रमुकत्वक्साराः सस्यानि तृणजातयः॥ अनु. ९६ दा. पा. अ. III॥