महाभारतसूक्तयः(वैराग्यम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

त्यागवांश्च पुनः पापं नालंकर्तुमिति श्रुतिः।
त्यागवाञ्जन्म मरणे नाप्नोति श्रुतिर्यदा॥ शान्ति. ७/३८॥

प्राप्तवर्त्मा कृतमतिर्ब्रह्म सम्पद्यते तदा।
स धनंजय निर्द्वन्द्वो मुनिर्ज्ञानसमन्वितः॥ शान्ति. ७/३९॥

निर्विद्यति नरः कामान्निर्विद्य सुखमेधते।
त्यक्त्वा प्रीतिं च शोकं च लब्ध्वा बुद्धिमयं वसु॥ शान्ति. १०४/७॥

अनागतं यन्न ममेति विद्यादतिक्रान्तं यन्न ममेति विद्यात्।
दिष्टं बलीय इति मन्यमानास्ते पण्डितास्तत्सतां स्थानमाहुः॥ शान्ति. १०४/२२॥

अनागतमतीतं च याथातथ्यविनिश्चयात्।
नानुशोचेत कौसल्य सर्वार्थेषु तथा भव॥ शान्ति. १०४/२७॥

श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः।
योगधर्मविदो धीरा स्वयमेव त्यजन्त्युत॥ शान्ति. १०४/३४॥

धनं वा पुरुषो राजन् पुरुषं वा पुनर्धनम्।
अवश्यं संजहात्येव विद्वान् तद् कोऽनुसंज्वरेत्॥ शान्ति. १०४/४५॥

यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे।
विमुक्तदोषः समलोष्टकाञ्चनो विमुच्यते दुःखसुखार्थसिद्धेः॥ शान्ति. १६७/४४॥

स्नेहेन युक्तस्य न चास्ति मुक्तिरिति स्वयम्भूर्भगवानुवाच।
बुधाश्च निर्वाणपरा भवन्ति तस्मान्न कुर्यात् प्रियमप्रियं च॥ शान्ति. १६७/४६॥

यथा यथा च पर्येति लोकतन्त्रमसारवत्।
तथा तथा विरागोऽत्र जायते नात्र संशयः॥ शान्ति. १७४/४॥

आत्मापि चायं न मम सर्वा वा पृथिवी मम।
यथा मम तथाऽन्येषमिति चिन्त्य न मे व्यथा।
एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे॥ शान्ति. १७४/१४॥

किं ते धनैर्बान्धवैर्वापि किं ते किं ते दारै ब्राह्मण यो मरिष्यसि।
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च॥ शान्ति. १७५/३८॥

तस्मान्निर्वेद एवेह गन्तव्यः सुखमिच्छता।
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने॥ शान्ति. १७७/१४॥

निवर्तस्व विधित्साभ्यः शाम्य निर्विद्य कामुक।
असकृच्चासि निकृतो न च निर्विद्यसे ततः॥ शान्ति. १७७/१८॥

निर्वेदादेव निर्वाणं न च किञ्चिद् विचिन्तयेत्।
सुखं वै ब्राह्मणो ब्रह्म निर्वेदेनाधिगच्छति॥ शान्ति. १८९/१७॥

विज्ञानार्थे हि पञ्चानामिच्छा पूर्वं प्रवर्तते।
प्राप्यैकं जायते कामो द्वेषो वा भरतर्षभ॥ शान्ति. २७३/३॥

ततस्तदर्थं यतते कर्म चारभते महत्।
इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति॥ शान्ति. २७३/४॥

ततो रागः प्रभवति द्वेषश्च तदनन्तरम्।
ततो लोभः प्रभवति मोहश्च तदनन्तरम्॥ शान्ति. २७३/५॥

लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च।
न धर्मे जायते बुद्धिर्व्याजाद् धर्मं करोति च॥ शान्ति. २७३/६॥

व्याजेन चरते धर्ममर्थं व्याजेन रोचते।
व्याजेन सिद्ध्यमानेषु धनेषु कुरुनन्दन॥ शान्ति. २७३/७॥

तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति।
सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत॥ शान्ति. २७३/८॥

य एतान् प्रज्ञया दोषान् पूर्वमेवानुपश्यति॥ शान्ति. २७३/१३॥

कुशलः सुखदुःखानां साधूंश्चाप्यथ सेवते।
तस्य साधुसमाचारादभ्यासाच्चैव वर्धते॥ शान्ति. २७३/१४॥

प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति।
सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः॥ शान्ति. २७३/१५॥

तस्यैव सिञ्चते मूलं गुणान् पश्यति तत्र वै।
धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम्॥ शान्ति. २७३/१६॥

स मित्रधनलाभात् तु प्रेत्य चेह च नन्दति।
शब्दे स्पर्शे रसे रूपे तथा गन्धे च भारत॥ शान्ति. २७३/१७॥

प्रभुत्वं लभते जन्तुर्धर्मस्यैत् फलं विदुः॥ शान्ति. २७३/१८॥

अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा।
प्रज्ञाचक्षुर्यदा कामे रसे गन्धे न रज्यते॥ शान्ति. २७३/१९॥

शब्दे स्पर्शे तथा रूपे न च भावयते मनः।
विमुच्यते तदा कामान्न च धर्मं विमुञ्चति॥ शान्ति. २७३/२०॥

सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्।
ततो मोक्षाय यतते नानुपायादुपायतः॥ शान्ति. २७३/२१॥

शनैर्निर्वेदमादत्ते पापं कर्म जहाति च।
धर्मात्मा चैव भवति मोक्षं च लभते परम्॥ शान्ति. २७३/२२॥

शरीरं गृहसंज्ञस्य शौच तीर्थस्य देहिनः।
बुद्धिमार्ग प्रयातस्य सुखं त्विह परत्र च॥ शान्ति. २९८/३६॥

सर्वारम्भपरित्यागी निराशी र्निष्परिग्रहः।
येन सर्वं परित्यक्तं स विद्वान् स च पण्डितः॥ शान्ति. ३२९/१४॥

जायमानांश्च सम्प्रेक्ष्य प्रियमाणांस्तथैव च।
न संवेगोऽस्ति चेत् पुंसः काष्ठलोष्ठसमो हि सः॥ अनु. १४५ दा. पा. अ. XIV॥

दोषदर्शी भवेत् तत्र यत्र रागः प्रवर्तते।
अनिष्टवर्धितं पश्येत् तदा क्षिप्रं विरज्यते॥ शान्ति. ३३०/६॥

एवं चिन्तयतो नित्यं सर्वार्थानामनित्यताम्।
उद्वेगो जायते शीघ्रं निर्वाणस्य परस्परम्॥
तेनोद्वेगेन चाप्यस्य विमर्शो जायते पुनः।
विमर्शो नाम वैराग्यं सर्वद्रव्येषु जायते॥
वैराग्येण परां शान्तिं लभन्ते मानवाः शुभे।
मोक्षस्योपनिषद् दिव्यं वैराग्यमिति निश्चितम्॥ अनु. १४५ दा. पा. अ. XIV॥

जातीमरणरोगैश्च समाविष्टः प्रधानवित्।
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति॥
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम्। आश्व. १८/३३॥