महाभारतसूक्तयः(शिवः)
लोकादिं विश्वकर्माणमजमीशानमव्ययम्।
मनसः परमं योनिं खं वायुं ज्योतिषां निधिम्॥ द्रोण ८०/४४॥
स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम्।
देवदानवयक्षाणां मानवानां च साधनम्॥ द्रोण ८०/४५॥
योगानां च परं धाम दृष्टं ब्रह्मविदां निधिम्।
चराचरस्य स्रष्टारं प्रतिहर्तारमेव च॥ द्रोण ८०/४६॥
यं प्रपद्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः।
तमजं कारणमात्मानं जग्मतुः शरणं भवम्॥ द्रोण ८०/४८॥
नमो भवाय शर्वाय रुद्राय वरदाय च।
पशूनां पतये नित्यमुग्राय च कपर्दिने।। द्रोण ८०/५५॥
आत्मनोऽर्धं तु तस्याग्निः सोमोऽर्धं पुनरुच्यते।
ब्रह्यचर्यं चरत्येका शिवा चास्य तनुस्तथा॥ अनु. १६१/५॥
यास्य घोरतमा मूर्तिर्जगत् संहरते तथा।
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः॥ अनु. १६१/६॥
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत् प्रतापवान्।
मांसशोणितमज्जादो यत् ततो रुद्र उच्यते॥ अनु. १६१/७॥
यच्च विश्वं महत् पाति महादेवस्ततः स्मृतः॥ अनु. १६१/८॥
धूम्ररूपं च यत्तस्य धूर्जटीत्यत उच्यते।
समेधयति यन्नित्यं सर्वान् वै सर्वकर्मभिः॥ अनु. १६१/९॥
मनुष्याञ्शिवमन्विच्छंस्तस्मादेष शिवः स्मृतः।
दहत्यूर्ध्वं स्थितो यच्च प्राणान् नॄणां स्थिरश्च यत्।
स्थिरलिङ्गश्च यन्नित्यं तस्मात् स्थाणुरिति स्मृतः॥ अनु. १६१/१०॥
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा॥ अनु. १६१/११॥
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः।
विश्वे देवाश्च यत्तस्मिन् विश्वरूपस्ततः स्मृतः॥ अनु. १६१/१२॥
सहस्राक्षोऽयुताक्षो वा सर्वतोऽक्षिमयोऽपि वा।
चक्षुषः प्रभवेत् तेजो नास्त्यन्तोऽथास्य चक्षुषाम्॥ अनु. १६१/१३॥
सर्वथा यत् पशून् पाति तैश्च यद् रमते सह।
तेषामधिपतिर्यच्च तस्मात् पशुपतिः स्मृतिः॥ अनु. १६१/१४॥
ऎश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते॥ अनु. १६१/२८॥
महेश्वरश्च लोकानां महतामीश्वरश्च सः।
बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत्।
तस्य देवस्य यद् वक्त्रं समुद्रे वडवामुखम्॥ अनु. १६१/२९॥
सम्मान्यं निश्चलं नित्यमकारणमलेपनम्।
अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः॥ आश्व ८ दा.पा. ३२-३३॥
यस्य नित्यं विधुः स्थानं मोक्षमध्यात्मचिन्तकाः।
योगिनस्तत्त्वमार्गस्थाः कैवल्यं पदमक्षरम्॥
यं विधुः सङ्गनिर्मुक्ताः सामान्यं समदर्शिनः।
तं प्रपद्ये जगद्योनिं निर्गुणात्मकम्॥ आश्व ८ दा.पा. ३२-३३॥
असृजद् यस्तु भूरादीन् सप्तलोकान् सनातनात्।
स्थितः सत्योपरि स्थाणुं तं प्रपद्ये सनातनम्॥ आश्व८दा.पा.३२-३३॥