सामग्री पर जाएँ

महाभारतसूक्तयः(शिष्यः)

विकिसूक्तिः तः

पुत्रादनन्तरं शिष्य इति धर्मविदो विदुः।
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः॥ विराट. ५०/२१॥

गुरुं शिष्यो नित्यमभिवादयीत स्वाध्यायमिच्छेच्छुचिरप्रमत्तः।
मानं न कुर्यान्नादधीत रोषमेष प्रथमो ब्रह्मचर्यस्य पादः॥ उद्योग. ४४/१०॥

आचार्यस्य प्रियं कुर्यात् प्राणैरपि धनैरपि।
कर्मणा मनसा वाचा द्वितीयः पाद उच्यते॥ उद्योग. ४४/१२॥

आचार्येणात्मकृतं विजानन् ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन।
यन्मन्यते तं प्रति हृष्टबुद्धिः स वै तृतीयो ब्रह्मचर्यस्य पादः॥ उद्योग. ४४/१४॥

नाचार्यस्यानपाकृत्य प्रवासं प्राज्ञः कुर्वीत नैतदहं करोमि।
इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः॥ उद्योग. ४४/१५॥

आचार्यानुगतो मार्गः शिष्यैरन्वास्यते सदा॥ द्रोण. ११३/३३॥

नाशिष्ये सम्प्रदातव्यो नाव्रते नाकृतात्मनि॥ शान्ति. ३२७/४५॥

नापरीक्षित चारित्रे विद्या देया कथंचन॥ शान्ति. ३२७/४६॥

यथा हि कनकं शुद्धं तापच्छेदनिकर्षणैः॥ शान्ति. ३२७/४६॥

परीक्षेत तथा शिष्यानीक्षेत् कुलगुणादिभिः।
न नियोज्याश्च वः शिष्या अनियोगे महाभये॥ शान्ति. ३२७/४७॥

यथामति यथापाठं तथा विद्या फलिष्यति।
शिष्याणां गुरुशुश्रूषा विप्राणां वेदधारणाम्।
भृत्यानां स्वामिवचनं राज्ञो लोकानुपालनम्॥ शान्ति. ३५९/५॥