महाभारतसूक्तयः(शूद्रः)

विकिसूक्तिः तः
Jump to navigation Jump to search

शूद्रः शुश्रूषणं कुर्यात् त्रिषु वर्णॆषु नित्यशः।
वन्दना योगविधिभिर्वैतसीं वृत्तिमास्थितः॥ विराट. ५०/६॥


ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः॥ कर्ण. ३२/४७॥

शूश्रूषाकृतकार्यस्य कृतसंतानकर्मणः।
अभ्यनुज्ञातराज्ञस्य शूद्रस्य जगतीपते॥ शान्ति. ६३/१२॥

अल्पान्तरगतस्यापि दशधर्मगतस्य वा।
आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम्॥ शान्ति. ६३/१३॥

न हि यज्ञेषु शूद्रस्य किञ्चिदस्ति परिग्रहः॥ शान्ति. १६५/८॥

हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः।
कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः॥ शान्ति. १८८/१३॥

सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः।
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः॥ शान्ति. १८९/७॥

शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु॥ अनु. १४१/५७॥

वार्ता च कारुकर्माणि शिल्पं नाट्यं तथैव च॥ अनु. १४१ दा. पा.॥

शूद्रोऽप्यागमसम्पन्नो द्विजो भवति संस्कृतः॥ अनु. १४३/४६॥

कर्मभिः शुचिमिभर्देवि शुद्धात्मा विजितेन्द्रियः।
शूद्रोऽपि द्विजवत् सेव्य इति ब्रह्माब्रवीत् स्वयम्॥ अनु. १४३/४८॥

स्वभावः कर्म च शुभं यत्र शूद्रेऽपि तिष्ठति।
विशिष्टः स द्विजातेर्वै विज्ञेय इति मे मतिः॥ अनु. १४३/४९॥

वृत्ते स्थितस्तु शूद्रोऽपि ब्राह्मणत्वं नियच्छति॥ अनु. १४३/५१॥