महाभारतसूक्तयः(शोकः)
न शोच्यं विदुषांश्रेष्ठ शोकः कार्यविनाशनः॥ द्रोण. ८०/७॥
यत् तु कार्यं भवेत् कार्यं कर्मणा तत् समाचर।
हीनचेष्टस्य यः शोकः स हि शत्रुर्धनंजय॥ द्रोण. ८०/८॥
शोचन् नन्दयते शत्रून् कर्शयत्यपि बान्धवान्।
क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि॥ द्रोण. ८०/९॥
अर्थान्न शोचन् प्राप्नोति न शोचन् विन्दते फलम्।
न शोचञ्छ्रियमाप्नोति न शोचन् विन्दते परम्॥ स्री. १/३८॥
न शोचन् मृतमन्वेति न शोचन् म्रियते नरः।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि॥ स्री. २/७॥
शोकस्थानसहस्रणि भयस्थानशतानि च॥ शान्ति. १७४/४०॥
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ स्री. २/२२॥
पुत्रदार कुटुम्बेषु प्रसक्ताः सर्वमानवाः।
शोकपङ्कार्णवे मग्ना जीर्णा वन गजा इव॥ शान्ति. १७४/६॥
प्रीत्या शोकः प्रभवति वियोगात् तस्य देहिनः।
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति॥ शान्ति. १६३/१३॥
पुत्रनाशे वित्तनाशे ज्ञातिसम्बन्धिनामपि।
प्राप्यते सुमहद्दुःखं दावाग्निप्रतिमं विभो।
दैवायत्तमिदं सर्वं सुख दुःखे भवाभवे॥ शान्ति. १७४/२७॥
बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम्।
दान्तं जितेन्द्रियं चापि शोको न स्पृशति नरम्॥ शान्ति. १७४/४१॥
एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेतद् बुधः।
उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति॥ शान्ति. १७४/४२॥
किंचिदेव ममत्वेन यदा भवति कल्पितम्।
तदेव परितापार्थं सर्वं सम्पद्यते तथा॥ शान्ति. १७४/४४॥
अनिवार्येन शोकेन शरीरं चोपतप्यते।
अमित्राश्च प्रहृष्यन्ति शोके नास्ति सहायता॥ शान्ति. २२६/४॥
संतापाद् भ्रश्यते रूपं संतापाद् भ्रश्यते श्रियः॥ शान्ति. २२६/५॥
संतापाद् भ्रश्यते चायुर्धर्मश्चैव सुरेश्वर।
नार्थो न धर्मो न यशो योऽतीतमनुशोचति।
अप्यभावेन युज्येत तच्चास्य न निवर्तते॥ शान्ति. ३३०/७॥
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च।
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते॥ शान्ति. ३३०/८॥
दुःखोपघाते शारीरे मानसे चाप्युपस्थिते।
यस्मिन् न शक्यते कर्त्तुं यत्नस्तन्नानुचिन्तयेत्॥ शान्ति. ३३०/११॥
भैषज्यमेतद् दुःखस्य यदेतन्नानुचिन्तयेत्॥ स्री. २/२७॥
चिन्त्यमानं न व्येति भूयश्चापि प्रवर्धते॥ शा. ३३०/१२॥
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः॥ स्री. २/३१॥
एतद् विज्ञानसामर्थं न बालैः समतामियात्॥ शान्ति. ३३०/१३॥
सम्प्रयोगादनिष्टस्य विप्रयोगात् प्रियस्य च।
मानुषा मानसैर्दुःखैः संयुज्यन्तेऽल्पबुद्धयः॥ अनु. १४५ दा. पा.॥
अदर्शनादापतिताः पुनश्चादर्शनं गताः।
स्नेहस्तत्र न कर्तव्यो विप्रयोगो हि तैर्ध्रुवः॥ अनु. १४५ दा. पा.XIV॥