महाभारतसूक्तयः(श्रेष्ठपुरुषः)

विकिसूक्तिः तः
Jump to navigation Jump to search

<poem> आर्येण सुकरं त्वाहुरार्यकर्म धनंजय। अनार्यकर्म त्वार्येण सुदुष्करतमं भुवि॥ द्रोण. १४३/१०॥

आत्मनिन्दाऽऽत्मपूजा च परनिन्दा परस्तवः। अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम्॥ कर्ण. ३५/४५॥

आत्मोपमस्तु भूतेषु यो वै भवति मानवः। न्यस्तदण्डो जितक्रोधः प्रेत्येह लभते सुखम्॥ शान्ति. ६६/३६॥

यदा निवृत्तः सर्वस्मात् कामो योऽस्य हृदि स्थितः। तदा भवति सत्वस्थस्ततो ब्रह्म समश्नुते॥ शान्ति. ६६/३८॥

कुलीनः कुलसम्पन्नस्तितिक्षुर्दक्ष आत्मवान्। शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम्॥ शान्ति. ८३/१६॥

न हि वैरं महात्मनो विवृण्वन्त्यपकारिषु। शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम्॥ शान्ति. १५७/१०॥

येष्वावृत्ति भयं नास्ति परलोक भयं न च। नामिषेषु प्रसंगोऽस्ति न प्रियेष्वप्रियेषु च॥ शान्ति. १५८/२३॥

शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः। सुखं दुःखं समं येषां सत्यं येषां परायणम्॥ शान्ति. १५८/२४॥

दातारो न ग्रहीतारो दयावन्तस्तथैव च। पितृदेवातिथिदेवाश्च नित्योद्युक्तास्तथैव च॥ शान्ति. १५८/२५॥

सर्वोपकारिणो वीराः सर्वधर्मानुपालकाः। सर्वभूतहिताश्चैव सर्वदेयाश्च भारत॥ शान्ति. १५८/२६॥

न ते चालयितुं शक्या धर्मव्यापारकारिणः। न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम्॥ शान्ति. १५८/२७॥

न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः। ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता॥ शान्ति. १५८/२८॥

कामक्रोध व्यपेता ये निर्ममा निरहंकृताः। सुव्रताः स्थिरमर्यादास्तानुपास्व च पृच्छ च॥ शान्ति. १५८/२९॥

न धनार्थं यशोऽर्थं वा धर्मस्तेषां युधिष्ठिर। अवश्यं कार्यं इत्येव शरीरस्य क्रियास्तथा॥ शान्ति. १५८/३०॥

न भयं क्रोध चापल्ये न शोकस्तेषु विद्यते। न धर्मध्वजिनश्चैव न गुह्यं कञ्चिदास्थिताः॥ शान्ति. १५८/३१॥

येष्वलोभस्तथामोहो ये च सत्यार्जवे स्थिताः। तेषु कौन्तेय रज्येथा येषां न भ्रश्यते पुनः॥ शान्ति. १५८/३२॥

ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च। निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः॥ शान्ति. १५८/३३॥

लाभालाभौ सुखदुःखे च तात प्रियाप्रिये मरणं जीवितं च। समानि येषां स्थिरविक्रमाणां बुभुत्सतां सत्त्वपथे स्थितानाम्॥ शान्ति. १५८/३४॥

धर्मप्रियांस्तान् सुमहानुभावान् दान्तोऽप्रमत्तश्च समर्चयेथाः। दैवात् सर्वे गुणवन्तो भवन्ति शुभाशुभे वाक्प्रलापास्तथान्ये॥ शान्ति. १५८/३५॥

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा। अनुग्रहश्च दानं च सतां धर्मः सनातनः॥ शान्ति. १६२/२१॥

मधु प्रयाताय सुखाय सन्तः॥ शान्ति. २२२/२५॥

न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः। ॠषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्॥ शान्ति. ३२३/६॥

ये रूपगुणसम्पन्नाः प्रमदाहृदयङ्गमाः। निवृत्ताः कामभोगेषु तान् नमस्यामि मातले॥ अनु. ९६ दा. पा. अ. II॥

धनं विद्यास्तथैश्वर्यं येषां न चलयेन्मतिम्। चलितां ये निगृह्णन्ति तान् नित्यं पूजयाम्यहम्॥ अनु. ९६ दा. पा. अ. II॥

ज्ञानप्रसन्नविद्यानां निरूढं धर्ममिच्छताम्। परैः कीर्तितशौचानां मातले तान् नमाम्यहम्॥ अनु. ९६ दा. पा. अ. II॥

निर्ममा निरहंकारा निर्द्वन्द्वा निष्परिग्रहाः। शुचयस्तीर्थ भूतास्ते ये भैक्ष्यमुपभुञ्जते॥ अनु. १०८/५॥

प्रजार्थमपि लोकार्थं महद्भिः क्रियते तपः॥ अनु. १४२/३३-३४ दा. पा.॥

महात्मनां तु तपसा सत्येन च शुचिस्मिते। क्षमया च महाभागे भूतानां संस्थितिं विदुः॥ अनु. १४२/३३-३४ दा. पा.॥