महाभारतसूक्तयः(श्रेष्ठवस्तूनि)

विकिसूक्तिः तः
Jump to navigation Jump to search

<poem> ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः॥ सभा. ३८/१७॥

वैश्यानां धान्यधनवाञ्छूद्राणामेव जन्मतः॥ सभा. ३८/१८॥

अग्निहोत्रमुखा वेदा गायत्री छन्दसां मुखम्। राजा मुखं मनुष्याणां नदीनां सागरो मुखम्॥ सभा. ३८/२७॥

नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम्। पर्वतानां मुखं मेरुर्गरुडः पततां मुखम्॥ सभा. ३८/२८॥

बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः। धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः॥ उद्योग. १६८/१७॥

मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः। सरितां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥ भीष्म. १२१/३४॥

आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान् वरः। जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम्॥ भीष्म. १२१/३५॥

चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम्। शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरम्॥ शान्ति. ११/११॥

मनुष्याणां तु राजन्यः क्षत्रियो मध्यमः गुणः। कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम्॥ आश्व. ४३/१॥

अविः पशूनां सर्वेषामहिस्तु बिलवासिनाम्। गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च॥ आश्व. ४३/२॥

न्यग्रोधो जम्बूवृक्षश्च पिप्पलः शाल्मलिस्तथा। शिंशपा मेषश्रृङ्गश्च तथा कीचकवेणवः॥ आश्व. ४३/३॥

एते दुमाणां राजानो लोकेऽस्मिन् नात्र संशयः। हिमवान् पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान्॥ आश्व. ४३/४॥

श्वेतो नीलश्च भासश्च कोष्ठवांश्चैव पर्वतः। गुरुस्कन्धो महेन्द्रश्च माल्यवान् पर्वतस्तथा॥ आश्व. ४३/५॥

एते पर्वतराजानो गणानां मरुतस्तथा। सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमा॥ आश्व. ४३/६॥

यमः पितॄणामधिपः सरितामथ सागरः। अम्भसां वरुणो राजा मरुतामिन्द्र उच्यते॥ आश्व. ४३/७॥

अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते। अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः॥ आश्व. ४३/८॥

ऒषधीनां पतिः सोमो विष्णुर्बलवतां वरः। त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः॥ आश्व. ४३/९॥

दीक्षितानां तथा यज्ञो दैवानां मघवा तथा। दिशामुदीची विप्राणां सोमो राजा प्रतापवान्॥ आश्व. ४३/१०॥

कुबेरः सर्वरत्नानां देवतानां पुरंदरः। एष भूताधिपः सर्गः प्रजानां च प्रजापतिः॥ आश्व. ४३/११॥

आदित्यो ज्योतिषामादिरग्निर्भूतादिरुच्यते। सावित्री सर्वविद्यानां देवतानां प्रजापतिः॥ आश्व. ४४/५॥

ऒङ्कारः सर्ववेदानां वचसां प्राण एव च। यदस्मिन् नियतं लोके सर्वं सावित्रीरुच्यते॥ आश्व. ४४/६॥

सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते। द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः॥ आश्व. ४४/१०॥

तथा त्रिपथगा गंगा नदीनामग्रजा स्मृता। तथा सरोदपानानां सर्वेषां सागरोऽग्रजः॥ आश्व. ४३/१४॥