महाभारतसूक्तयः(सांख्यं योगदर्शनं च)

विकिसूक्तिः तः
Jump to navigation Jump to search

सांख्यं योगदर्शनं च

पञ्चविंशति तत्त्वानि तुल्यान्युभयतः समम् ॥ शान्ति २३६/२९

मूलप्रकृतिरविकृतिर्महदाद्द्याः प्रकृतिर्विकृतयःसप्त ।
षोडशक्स्तुविकारो न प्रकृतिर्नविकृतिः पुरुषः ॥ सांख्यकारिका ३

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ योग सूत्र साधनपाद १९

प्रक्तं तद् व्यक्तमित्येव जायते वर्धते च यत् ।
जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम् ॥ शान्ति २३६/२०

विपरीतमतो यत् तु तदव्यक्तमुदाहृतम् ।
द्वावात्मनौ च विदेषुसिद्धान्तेष्वप्युदाहृतौ ॥ शान्ति २३६/२१

ज्ञानेनैव विमुक्तस्ते सांख्याः संन्यासकोविदाः ।
शरीरं तु तपो घोरं सांख्याः प्राहुर्निरथकम् ॥ अनु १४५दा०पा०अ०XV

मूल प्रकृतिरव्यक्तमव्यक्ताज्जायते महान् ।
महतोऽभूदहंकारस्तस्मात् तन्मात्रपञ्चकम् ॥
इन्द्रियाणि दशैकं च तन्मात्रेभ्यो भवन्त्युत ।
तेभ्यो भूतानि पञ्चभ्यः शरीरं वै प्रवर्तते ॥
इति क्षेत्रस्य संक्षेपः चतुर्विशतिरिष्यते ।
पञ्चविंशतिरित्याहुः पुरुषेणह संख्यया ॥ अनु १४५ दा० पा० अ० XV

सत्वं रजस्तमश्चेति गुणाः प्रकृतिसम्भवाः ।
तैः सृजत्यखिलं लोकं प्रकृति स्त्वात्मजैर्गुणैः ॥
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
विकाराः प्रकृतेश्चैते वेदितव्या मनिषिभिः ॥ अनु १४५ दा० पा० अ० XV

नित्यमेकमणु व्यापि क्रियाहीनमहेतुकम् ।
अग्राह्यमिन्द्रियैः स वैरेतदव्यक्तलक्षणम् ॥
अव्यक्तं प्रकृतिर्मूलं प्रधानं योनिरव्ययम् ।
अव्यक्तस्यैव नामानि शब्दैः पर्यायवाचकैः ॥ अनु १४५ दा० पा० अ० XV

तत् सूक्ष्मत्वादनिर्देश्यं तत् सदित्यभिधीयते ।
तन्मूलं च जगत् सरवं तन्मूला सृष्टिरिष्यते ॥ अनु १४५ दा० पा० अ० XV

सुखं तुष्टिः प्रकाशश्च त्रयस्ते सात्त्विका गुणाः ।
रगद्वेषौ सुखं दुःखं स्तम्भश्स्च रजसो गुणाः ॥ अनु १४५ दा० पा० अ० XV

अप्रकाशो भयं मोहस्तन्द्री च तमसो गुणाः ॥ अनु १४५ दा० पा० अ० XV

श्रद्धा प्रहर्षो विज्ञानमसम्मोहो दया दृतिः ।
सत्तवे प्रवृद्धे वर्धन्ते विपरीते विपर्ययः ॥ अनु १४५ दा० पा० अ० XV

कामक्रॊधौ मनस्तापो लोभो मोहस्तथा मृषा ।
प्रवृद्धे परिवर्धन्त्ते रजस्येतानि सर्वशः ।
विषादः संशयो मोहस्तन्द्री निद्रा भयं तथा ।
तमस्येतानि वर्धन्ते प्रवृद्धे हेत्वहेतुकम् ॥ अनु १४५ दा० पा० अ० XV

समासात् सात्त्विको समासाद् राजसं धनं ।
समासात् तामसः कामास्त्रिवर्गे त्रिगुणाः क्रमात् ॥
ब्रह्मादिदेवसृष्टिर्या सात्त्विकीति प्रकीर्त्यते ।
राजसी मानुषी सृष्टिः तिर्यग्योनिस्तु तामसी ॥ अनु १४५ दा० पा० अ० XV

विज्ञानं च विवेकश्च महतोलक्षणं भवेत् ॥ अनु १४५ दा० पा० अ० XV

महान् बुद्धिर्मतिः प्रज्ञा नामानि महतो विदुः ॥ अनु १४५ दा० पा० अ० XV

अहंकारेण भूतानां सर्गो नानादिधो भवत् ।
अहंकारनिवृत्तिर्हि निर्वाणायोपपद्यते ॥ अनु १४५ दा० पा० अ० XV

खं वायुर्ग्निः सलिलं पृथिवी चेति पञ्चमी ।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥ अनु १४५ दा० पा० अ० XV

शब्दः श्रोत्रं तथा खानि त्रयमाकाशसम्भवम् ।
स्पर्शवत् प्राणिनां चेष्टा पवनस्य गुणाः स्मृताः ॥ अनु १४५ दा० पा० अ० XV

रूपं पाकोऽक्षिणी ज्योतिश्चवारस्स्तेजसो गुणाः ।
रसः स्नेहस्तथा जिह्वा शैत्यं च जलजा गुणाः ॥ अनु १४५ दा० पा० अ० XV

गन्धो घ्राणं शरीरं च पृथिव्यास्ते ग्रुणास्त्रयः । अनु १४५ दा० पा० अ० XV

प्राणापानश्रेयो वायुः खेष्वाकाशः शरीरिणाम् ।
केशास्थि नख दन्तत्वक्पाणिपादशिरांसि च ।
पृष्ठोदरकटिग्रीवः सर्वं भूम्यात्मकं स्मृतं ॥ अनु १४५ दा० पा० अ० XV

यत् किंचिदपि कायेऽस्मिन् धातुदोषमलाश्रितम् ।
तत् सर्वं भौतिकं विद्धि देहैरेवास्य स्वामिकम् ॥ अनु १४५ दा० पा० अ० XV

बुद्धिन्द्रियाणि कर्णत्वक्चक्षुर्जिह्वाथ नासिका ।
कर्मेन्द्रियाणि वाक्पाणिपादौ मेढ्ं गुदस्तथा ॥ अनु १४५ दा० पा० अ० XV

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
बुद्धिन्द्रियार्थान् जानीयाद् भूतेभ्यस्त्वभिनिः सृतान् ॥ अनु १४५ दा० पा० अ० XV

वाक्यं क्रिया गतिः प्रतिरुत्सर्गश्चेति पञ्चधा ।
कामेन्द्रियार्थान् जानीयात् ते च भूतोद्भवाः ॥ अनु १४५ दा० पा० अ० XV

इन्द्रियाणां तु सर्वेषामीश्वरं मन उच्यते ।
प्रार्थनालक्षणं तच्च इन्द्रियं तु मनः स्मृतम् ॥ अनु १४५ दा० पा० अ० XV

आत्मा
नियुङ्क्ते च सदा तानि भूतानि मनासा सह ।
नियमे च विसर्गे च मनसः कारणं प्रभुः ॥ अनु १४५ दा० पा० अ० XV

शरीरं
इन्द्रियाणिइन्द्रियार्थाश्च स्वभावश्चेतना धृतिः ।
भूताभूतविकारश्च शरीरमति संस्थितम् ॥ अनु १४५ दा० पा० अ० XV

शरीराश्च परो देही शरीरं च व्यापाश्रितः ॥ अनु १४५ दा० पा० अ० XV

रसः स्पर्शश्च गन्धश्च रूपं शब्दविवर्जितम् ।
अशरीरं शरीरेषु दिदृक्षेत निरिन्द्रियम् ॥ अनु १४५ दा० पा० अ० XV

अव्यक्तं सर्वदेहेषु मर्त्येष्वमरमाश्रितम् ।
यः पश्येत् परमात्मानं बन्धनैः स विमुच्यते । अनु १४५ दा० पा० अ० XV

इन्द्रियैरिह बुद्ध्या वा न दृश्यते कदाचन ॥ अनु १४५ दा० पा० अ० XV

क्षेत्रज्ञमेकतः कृत्वा सर्वं क्षेत्रमथैकतः ।
एवं संविमृशोज्ज्ञानी संयतः सततं ह्यदि ॥ अनु १४५ दा० पा० अ० XV

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
अकर्तालोपको नित्यो मध्यस्थो सर्वकर्मणाम् ॥ अनु १४५ दा० पा० अ० XV

ऋषिभिश्चापि देवैश्च व्यक्तमेष न दृश्यते ।
दृष्ट्वा तु तं महात्मानं पुनस्तन्न निर्वर्तते ॥ अनु १४५ दा० पा० अ० XV

ज्ञानं सर्वस्य योग्सस्य मूलमित्यवधारय ।
व्रतोपवासनियमैः तत् सर्वं चापि बृंहयेत् ॥ अनु १४५ दा० पा० अ० XV

एकाग्य्रं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ।
आत्मनोऽव्ययिनः प्राज्ञॆ जानमेतत् तु योगिनाम् ॥ अनु १४५ दा० पा० अ० XV

दानमध्ययनं श्रद्धा व्रतानि नियमास्तथा ।
सत्यमाहारशुद्धिश्च शौचमिन्द्रियानिग्रः ।
एतैश्च वर्धते तेजः पापं चाप्यवधूयते ॥ अनु १४५ दा० पा० अ० XV

मनोऽवस्थापनं देवि योगस्योपनिषद् भवेत् ।
तस्मात् सर्वप्रयत्नेन मनोऽवस्थापयेत् सदा ।।
त्वक्छोत्रं च ततो जिह्वां घ्राणं चक्षुश्च संहरेत् ।
पञ्चेन्द्रियाणि संधाय मनसि स्थापयेद् बुधः ॥ अनु १४५ दा० पा० अ० XV

सर्वं चापोह्य संकल्पमात्मनि स्थापयेन्मनः ।
यदैतान्यवतिष्ठन्ते मनः षष्ठानि चात्मनि ॥
प्राणापानौ तदा तस्य युगपत् तिष्ठतो वशे ।
प्राणे हि वशमापन्ने योगसिद्धिध्रुर्वा भवेत् ॥ अनु १४५ दा० पा० अ० XV

वस्तिमूलं गुदं चैव पावकं समाश्रितः ।
वहन् मूत्रं पुरीषं च सदापानः प्रवर्तते ॥
अथ प्रवृर्थिर्देहेषु पर्मापानस्य सम्मतम् ।
उदीरयन् सर्वधातून् अत ऊर्द्वं प्रवर्तते |
उदान इति तं विद्युरध्यात्मकुशला जनाः ॥ अनु १४५ दा० पा० अ० XV

संधौ संधौ स निर्विष्टः सर्वचेष्टाप्रवर्तकः ।
शरीरेषु मनुष्याणां व्यान् इत्युपदिश्यते ॥
धातुष्वग्नौ च विततः समानोऽग्निः समीरणः ।
स एव सर्वचेष्टानामन्तकाले निर्वतकः ॥ अनु १४५ दा० पा० अ० XV

प्राणानां संनिपातेषु संसर्गाद् यः प्रजायते ।
ऊष्मा सोऽग्निरिति ज्ञेयः सोऽन्नं पचति देहिनाम् ॥ अनु १४५ दा० पा० अ० XV

अपानप्राणयोर्मध्ये व्यानोदानावृपाश्रितौ ।
समन्वितः समानेन सम्यक् पचति पवकः ॥ अनु १४५ दा० पा० अ० XV

शरीरमध्ये नाभिः स्यान्नाभ्यामग्निः प्रतिष्ठितः ।
अग्नौ प्राणाश्च संयुक्त प्राणेष्वात्मा व्यवस्थित: || अनु १४५ दा० पा० अ० XV

पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयस्तथा ।
नाभिर्मध्ये शरीरस्य सर्वप्राणाश्च संश्रिताः ॥ अनु १४५ दा० पा० अ० XV

स्थिताः प्राणादयः सर्वे तिर्यगूर्ध्वमधश्चराः ।
वहन्त्यन्नरसान् नाड्यो दशप्राणाग्निचोदिताः ॥ अनु १४५ दा० पा० अ० XV

मूर्धन्यात्मानमाधाय भ्रुवोर्मध्ये मनस्तथा ।
संनिरुध्य ततः प्राणानात्मानं चिन्तयेत् परम् ॥
प्राणे त्वपानं युञ्जीत प्राणांश्चापानकर्मणि ।
प्राणापानगति रुद्धवा प्राणायामपरो भवेत् ॥ अनु १४५ दा० पा० अ० XV

एवमन्तः प्रयुञ्जीत पञ्च प्राणान् परस्परम् ।
विजने सम्मिताहारो मुनिस्तूष्णीं निरुच्छवसन् ॥
अश्रान्तश्चिन्तयेद् योगी उत्थाय च पुनः पुनः ।
तिष्ठन् गच्छन् स्वपन् वापि युञ्जितैवमतन्द्रितः ॥ अनु १४५ दा० पा० अ० XV

एवं नियुञ्जतस्तस्य योगिनो युक्तचेतसः ।
प्रसीदति मनः क्षिप्रं प्रसण्णे दृश्यते परम् ॥
विधूम इव दीप्तोऽग्निरादित्य इव रश्मिमान् ।
वैद्युतोऽग्निरिवाकाशे पुरुषॊ दृश्यतेऽव्ययः ॥ अनु १४५ दा० पा० अ० XV

दृष्ट्व तदा मनो ज्योतिरैश्वर्याष्टगुणैर्युतः ।
प्राप्नोति परमं स्थानं स्पृहणीयं सुरैरपि ॥ अनु १४५ दा० पा० अ० XV

कामः क्रोधो भयं स्वप्नः स्नेहमत्यशनं तथा ।
वैचित्त्यं व्याधिरालस्यं लोभश्च दशमः स्मृतः ॥ अनु १४५ दा० पा० अ० XV

अनेनैव विधानेन सायुज्यं तत् प्रकल्पते ॥ अनु १४५ दा० पा० अ० XV