महाभारतसूक्तयः(सुखम्)
सात्त्विक् सुख् :
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥--- भीष्म ४२/३७
राजसिक सुख्
विषयेन्द्रियसंयोगाद् यत्तदग्रेऽमृतोपम् ।
परिणामे विषमिव तत् सुखं राजसं स्मृतं ॥---- - भीष्म ४२/३८
तामसिक सुख
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥------ भीष्म ४२/३९
न ध्रुवं सुखमस्तीति कुतो राष्ट्रं कुतो यशः ॥ ------ शल्य ५/३१
सुखमेव हि दुःखान्तं कदाचित् दुःखतः सुखं ।
तस्मादेतद् द्वयं जह्याद् य इच्छेच्छाश्वतं सुखम् ॥---- शान्ति २५/२४
सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम् ।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥ -----शान्ति २५/२६
ये च मूढतमा लोके ये च बुद्धेः परं गताः । ------- शान्ति १७४/३३
त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः ॥-------- शान्ति २५/२८
नालं सुखाय सुहृदो नालं दुःखाय शत्रवः । ------- शान्ति १७४/२९
न च प्रजालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् ॥---- शान्ति २७/३२
छायायामप्सु वायौ च सुखमुष्णोऽधिगच्छति ।
अग्नौ वाससि सूर्ये च सुखं शीतोऽधिगच्छति ॥-----शान्ति ७२/२२
पानीयं व निरायासं स्वाद्वत्रं वभयोत्तरम् ।
विचार्य खलु पश्यामि तत्सुखं यत्र निवृत्तिः ॥------ शान्ति ११/३२
सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः ।
दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् । ------शान्ति १३९/६२
जात्यैवेके सुखितराः सन्त्यन्ये भृशटुःखिताः ।
नैकान्तं सुखमेवह क्वचित्पश्यामि कस्यचित् ॥ -----शान्ति १८०/२३
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः ।
सुखं ह्यनित्यं भूतानामिहलोके प्रत्र च ॥ -------- शान्ति १९०/७
परित्यजति यो दुखं सुखं वाप्युभयं नरः ।
अभ्येति ब्र्ह्मा सोऽत्यन्तं न तं शोचन्ति पण्डिताः ॥ ----शान्ति ३३०/१७
शब्दे स्पर्शे च रूपे च गन्धॆषु च रसेषु च ।
नोपभोगात् परं किंचिद् धनिनो वाधनस्य च ॥ ------ शान्ति ३३०/२६
प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च ।
विचरेदसमुन्नद्धः स सुखी स च पण्डितः ॥ -------शान्ति ३३०/२९
अध्यात्मरतिरासीनो निरपक्षो निरामिषः ।
आत्मनैव सहायेन यश्चरेत् स सुखिई भवेत् ॥ ---- शान्ति ३३०/३०
अविश्वासान्न व्यसनी नातिसक्तोऽप्रवासकः ।
विद्वान् सुशीलः पुरुषः सुखमश्नुते ॥ ------- अनुशासन २१/१५-१६ दा० पा०
सुखादेव परं दुःखं दुःखादप्यपरं सुखं ।
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः ॥ ---- अनुशासन् १२०/२२
कुटुम्बपुत्रदाराश्च शरीरं धनसंचयः ।
एश्वर्यं स्वस्तथा चेति न मुह्यते तत्र पण्डितः ॥ ---- अनुशासन् १४५ दा० पा० अ० XI