सामग्री पर जाएँ

महाभारतसूक्तयः(सूर्यः)

विकिसूक्तिः तः

त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम्।
त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम्॥ वन ३/३६॥

त्वया संधार्यते लोकस्त्वया लोकः प्रकाश्यते।
त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया॥ वन ३/३८॥

सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च।
न तु तेषां तथा दीप्तिः प्रभावो वा यथा तव॥ वन ३/४६॥

त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम्।
सर्वोषधिरसानां च पुनर्वर्षासु मुञ्चति॥ वन ३/४९॥

न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः।
शीतवातार्दितं लोकं यथा तव मरीचयः॥ वन ३/५१॥

तव यद्युदयो न स्यादन्धं जगदिदं भवेत्।
न च धर्मार्थकामेषु प्रवर्तेरन् मनीषिणः॥ वन ३/५३॥

यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसम्मितम्।
तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः॥ वन ३/५५॥

संहार काले सम्प्राप्ते तव क्रोधविनिसृतः।
संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते॥ वन ३/५७॥

आदत्ते रश्मिभिः सूर्यो दिवि तिष्ठंस्ततस्ततः।
रसं हृतं वै वर्षासु प्रवर्षति दिवाकरः॥ अनु ९५/२१॥

ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम्।
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते॥ अनु ९५/२२॥