महाभारतसूक्तयः(सृष्टिः)

विकिसूक्तिः तः
Jump to navigation Jump to search

आव्यक्त इति विख्यातः शास्वतोऽथाक्षयोऽव्ययः ।
यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च ॥ ----- शान्ति १८२/१२

सोऽसृजत् प्रथमं देवो महान्तं नाम नामतः ।
महान् ससर्जाहंकारं स चापि भगवानथ ॥ ------ शान्ति १८२/१३

अकाशमिति विखयातं सर्वभूतधरः प्रभुः ।
आकाशाद्बवत् वारि सलिलाद्ग्निमारुतौ ॥-------शान्ति १८२/१४

ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा ।
तस्मात् पद्मात् समभवत् ब्र्ह्मा वेदमयोनिधिः ॥--शान्ति १८२/१५

अहंकार इति ख्यातः सर्वभूतात्मभूतकृत् ।
ब्रह्मा वै स महातेजा य एते पञ्च धातवः ॥------ शान्ति १८२/१६

शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनि ।
मुद्रास्तस्य रुधिरमाकाशमुद्रं तथा ॥ ----शान्ति १८२/७

पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः शिराः ।
अग्नीषॊमौ तु चन्द्रार्कौ नयने तस्य विश्रुते ॥-----शान्ति १८२/१८

नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ भुजौ दिशः ।
दुर्विज्ञेयो ह्यचिन्त्यात्मा सिद्धैरपि न संशयः ॥ ---शान्ति १८२/१९

मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता ।
तस्यासनविधानार्थं पृथिवि पद्ममुच्यते ॥ -----शान्ति १८२/३७

प्रजाविसर्गं विविधं मानसो मनसासृजत् ।
संरक्षणार्थं भूतानां सृष्टं प्रतमतो जलम् ॥------शान्ति १८३/२

यत् प्राणः सर्वभूतानां वर्धन्ते येन च प्रजाः ।
परित्यक्ताश्च नश्यन्ति तेनदं सर्वमावृतम् ॥ ---- शान्ति १८३/३

पिथिवी पर्वथा मेघा मूर्तिमन्तश्च ये परे ।
सर्वं तद् वारुणं ज्ञेयमापस्तस्तम्भिरे यतः ॥ --- शान्ति १८३/४

पुरा स्तिमितमाकाशमनन्तमचलोपमम् ।
नष्टचन्द्रार्कपवनं प्रसुप्तमिव सम्बभौ ॥ ------- शान्ति १८३/१०

तथा सलिलसंरुद्धे नभसोऽन्ते निरन्तरे ।
भित्तवार्णवतलं वायुः समुपतति घोषवान् ॥ शान्ति १८३/१२

स एष चरते वायुर्णवोत्पीडसम्भवः ।
आकाशस्थानमासाद्य प्रशान्तिं निधिगच्छति ॥ -- शान्ति १८३/१३

तस्मिन् वाय्वम्बुसंघ्र्षे दीप्ततेजा महाबलः ।
प्रदूरभूदूर्ध्वशिखः कृत्वा निस्तमिरं नभः ॥ ------शान्ति १८३/१४

अग्निः पवनसंयुक्तः खं समाक्षिप्ते जलम् ।
सोऽग्निमारुतसंयोगाद् घनत्वमुपपद्यते ॥ -------शान्ति १८३/१६

रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा ।
भुमिर्योनिरिह ज्ञॆया यस्यां सर्वं प्रसूयते ॥ ---- शान्ति १८३/१७

यथाश्वत्थकणिकायामन्तर्भूतो महादुमः ।
निष्पन्नो दृश्यते व्यक्तमव्यक्तात् सम्भवस्तथा ॥-- शान्ति २११/२

अभिद्रवत्ययस्कान्तमयो निश्चेतनं यथा ।
स्वभावहेतुजा भावा यद्वदन्यदपीदृशम् ॥ ---- शान्ति २११/३

अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् ।
क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् ॥-- शान्ति २११/८

स्निग्धत्वात् तिलवत् सर्वं चक्रेऽस्मिन् पीड्यते जगत् ।
तिलपीडैरिवाक्र्कम्य भोगैरज्ञानसम्भवैः ॥-------शान्ति २११/९