महाभारतसूक्तयः(हिंसा)

विकिसूक्तिः तः
Jump to navigation Jump to search

नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥ शान्ति १५/१४

न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया ।
सत्त्वैः सत्त्वा हि जीवन्ति दुर्बलैर्बलवत्तराः ॥ शान्ति १५/२०

नकुलो मूषिकानत्ति बिडालो नकुलं तथा ।
बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा ॥ शान्ति १५/२१

उदके बहवः प्राणाः पृथिव्यां च फलेषु च ।
न च कश्चिन्न तान् हन्ति किमन्यत् प्राणयापनात् ॥ शान्ति १५/२५

सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् ।
पक्षमणोऽपि निपातेन येषां स्यात् स्कन्धपर्ययः ॥ शान्ति १५/२६

अन्यत्र राजन् हिंसाय वृत्तिर्नेहास्ति कस्यचित् ।
अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः ॥ शान्ति १३०/२८

परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते । शान्ति १६३/९

दयया सर्वभूतानां निर्वेदात् सानिवर्तते ।
अवद्यदर्शनादेति तत्त्व ज्ञानाच्च धीमताम् ॥ शान्ति १६३/१०

अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरेः ।
संशयात्मभिरव्यक्तैर्हिंसा सम्नुवर्णिता ॥ शान्ति २६५/४

न हिंसयात् सर्वभूतानि मैत्रायणगतश्चरेत् ।
नेदं जन्म समासाद्य वैरं कुर्वीत केनचित् ॥शान्ति ३२९/१८

अहिंसाकानि भूतानि दण्डेन विनिहन्ति यः ।
आत्मनः सुखमन्विच्छन् स प्रत्य न सुखी भवेत् ॥अनुशासन् ११३/५

स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
नारदः प्राह धर्मात्मा नियतं सोऽवसीदति ॥ अनुशासन् ११५/१२

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(हिंसा)&oldid=15671" इत्यस्माद् पुनः प्राप्तिः