महाभारतसूक्तयः(हितवचनम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

लभ्यते खलु पापीयान् नरो नु प्रियवागिह ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता चदुर्लभः ॥ सभा ६४/१६

यस्तु धर्मपरश्च स्याद्धित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ सभा ६४/१७

शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियं ।
अपृष्टस्तस्य तद् ब्रूयाद् यस्य नेच्छेत् पराभवम् ॥ उद्योग ३४/४

सुव्याहृतानि सूक्तानि सुकृतानि ततस्ततः ।
सोचिन्वन् धीर आसीत शिलाहारी शिलं यथा ॥ उद्योग ३४/३३

सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥उद्योग ३७/१५

यो हि धर्म समाश्रित्य हित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह पश्यानि तेन राजा सहायवान् ॥उद्योग ३७/१६

संनियच्छति यो वेगमुत्थितं क्रोध हर्षयोः ।
स श्र्यो भाजनं राजन् यश्चापस्त्सु न मुह्यति ॥ उद्योग ३७/५१

सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत ।
नावज्ञॆया मनुष्येण स्सस्र्वे ह्योतेऽतितेजसः ॥उद्योग ३७/५७

अनीर्षुर्गुप्तदारश्च संविभागी प्रियंवदः ।
श्लक्षणो मधुरवाक् स्त्रीणां ना चासां वशगो भवेत् ॥ उद्योग ३८/१०

न वृद्धिर्बहु मन्तव्स्यो य वृद्धिः क्ष्यमावहेत् ।
क्षयोऽपि बहुमन्तव्यो यः क्षयो वृद्धिमावहेत् ॥ उद्योग ३९/६

येन खट्वां समारूढः परितप्येत कर्मणा ।
आदावेव न तत् कुर्यादधुवे जीविते ॥ उद्योग ३३९/२९

सुख्याहृतानि धीराणां फलतः परिचिन्त्य यः ।
अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ उद्योग ३९/३३

प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्धं वयसा चापिवृद्धम् ।
कार्याकार्ये पूजायित्वा प्रस्सद्य यः सम्पृच्छेन्न स मुह्येत् कदाचित् ॥ उद्योग ४०/२३

धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा ।
च्क्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥उद्योग ४०/२४

यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन ।
न तत्र प्रलपेत् प्राज्जो बधिरेष्विव गायनः ॥उद्योग ९२/१३

न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः ॥उद्योग १०६/६

य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।
न स कालं न वा देव्वानेनसा गन्तुमर्हति ॥ उद्योग १५९/९

यो तथा वर्तते यस्मिंस्तस्मिन्नेव प्रवर्तयन् ।
नधर्मं समवाप्नोति न चाश्रेयश्च विन्दति ॥ उद्योग १७८/५३

य आत्मनो दुश्चरिताद्शुभं प्राप्नुयान्नरः ।
एनसा तेन नान्यं स उपाशङ्कितुमर्हति ॥ भीष्म १५/२

योऽवमन्य वचः पथ्यं सुहृदामाप्तकारिणाम् ।
स्वमतं कुरुते मूढ स शोच्यो नचिरादिव ॥ द्रोण १५१/१४

मारितोदकवेगेन ये नमन्त्युन्नमन्ति च ।
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् ॥ शान्ति ११३/११

एवमेव यदा विद्वान् मन्यतेऽतिबलं रिपुं ।
संश्रयेद् वैतसीं वृत्तिमेतत् प्रज्ञान् लक्षणम् ॥ शान्ति ११३/१४

मता पिता बान्धवानां वरिष्ठौ भार्या जरा बीजमात्रं तु पुत्रः ।
भ्राता शत्रुः क्लिन्नपाणिर्वयस्यः आत्मा ह्योकः सुखदुःखस्य भोक्ता ॥ शान्ति १३९/३०

आशा बलवतई राजन् नैराश्यं परमं सुखम् ।
आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥ शान्ति १७८/८

सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः ।
आमिषस्य परित्यागात् कुररः सुखमेधते ॥ शान्ति १७८/९

गृहारम्भो हि दुःखाय कदाचन ।
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ शान्ति १७८/१०

सुखं जीवन्ति मुनयो भैष्यवृत्तिं समाश्रिताः ।
अद्रोहेणैव भूतानां सारङगा इव पक्षिणः ॥ शान्ति १७८/११

इषुकारो नरः कश्चिदिष्वासत्त मानसः ।
समीपेनापि गन्च्छन्तं राजानं नावबुद्धवान् ॥शान्ति १७८/१२

बहूनां कलहो नित्यं द्वयोः संकथनं ध्रुवं ।
एकाकई विचरिष्यामि कुमारि शंसको यथा ॥ शान्ति १७८/१३

अप्राशनमसंस्पर्शमसंदर्शनमेव च ।
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥ शान्ति १८०/३३

अलमन्यैरुपालम्भैः कीर्थितैश्च व्यक्तिक्रमैः ।
पेशलं चानुरूपं च कर्तव्यंहितमात्मनः ॥ शान्ति १८१/२०

शौचमावश्यकं कृत्वा देवतानां च तर्पणाम् ।
धर्ममाहुर्मनुष्याणामुपसपृश्य नदीं तरेत् ॥ शान्ति १९३/४

सूर्यं सदोपतिष्ठेत न च सूर्योदये स्वपेत् ॥
सायं प्रातर्जपेत् सन्ध्यां तिष्ठन् पूर्वां तथेतराम् ॥ शान्ति१९३/५

पञ्चार्द्रो भोजनं भुञ्जयात् प्रङ्मुखॊ मौनमास्थितः ।
न निद्यादन्नभक्ष्यां स्वाद्वस्वादु च भक्षयेत् ॥ शान्ति १९३/६

आर्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि ॥ शान्ति १९३/७

अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।
सामान्यं भोजनं भृतैः पुरुषस्य प्रशस्यते ॥ शान्ति १९३/९

सायं प्रातर्मनुष्याणामशनं वेदनिर्मितं ।
नान्तरा भोजनं दृष्टमुपवासी तथा भवेत् ॥ शान्ति १९३/१०

होमकालए तथा जुह्वनृतुकाले तथा व्रजन् ।
अनन्यस्त्री प्राज्ञो ब्रह्मचारी तथा भवेत् ॥ शान्ति १९३/११

लोष्टमदीं तृणच्छेदी नखखादी तो यो नर: ।
नित्योच्छिटः शंकुशुको नेहायुर्विन्दते महत् ॥ शान्ति १९३/१३

गुरुभ्य आसनं देयं कर्त्तव्यं चाभिवादनम् ।
गुरुनभ्यर्च्य युज्यन्ते आयुषा यशासा श्रिया ॥ शान्ति १८९३/१६

नेक्षातादित्यमुद्यन्तं न अच नग्नां परस्त्रियं ।
मैथुनं सततं धर्म्यं गृहे चैव समाचरेत् ॥ शान्ति १९३/१७

दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत् ।
सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम् ॥ शान्ति १९३/१८

दैवागारे गवां मध्ये ब्राह्मणानां क्रियापथे ।
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥ शान्ति १९३/१९

प्रत्यादित्यं न मेहेत पश्येदात्मनः शकृत् ।
सह स्त्रियाथ शयनं सह भोज्यं च वर्जयेत् ॥ शान्ति १९३/२४

त्वं कारं नामधेयं च ज्येष्टानां परिवर्जयेत् ।
अवराणां समानानामुभयेषां न दुष्यति ॥ शान्ति १९३/२५

हृदयं पापवृत्तानां पापमाख्याति वैकृतम् ।
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥ शान्ति १९३/२६

ज्ञानपूर्वकृतं पापं छादयत्यबहुश्रुतः ॥
नैनं मनुष्याः पश्यन्ति पश्यन्त्येव दिवौकसः ॥ शान्ति १९३/२७

पापं कृतं न स्मरतीह मूढो विवर्तमानस्य तदेति कर्तुः ।
राहुर्यथा चन्द्रमुपैति चापि तथाबुधं पापमुपैति कर्म ॥ शान्ति १९३/२९

आशया संचितं द्रव्यं दुःखेनैवोपमुज्यते ।
तद् बुधा न प्रशंसन्ति मरणं प्रतीक्षते ॥ शान्ति १९३/३०

मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः ।
तस्मात् सर्वेषु भूतेषु मनसा शिवमाचरेत् ॥ - शान्ति १९३/३१

एक एव चरेद् धर्मं नास्ति धर्मे सहायता ।
केवलं विधिमासाद्य सहायः किं करिष्यति ॥ शान्ति १९३/३२

धर्मो योनिर्मनुष्याणां देवानाममृतं दिवि ।
प्रेत्यभावे सुखं धर्माच्छश्वत्तैरुपभुज्यते ॥ शान्ति १९३/३३

नापृष्टः कस्यचिद् ब्रूयान्नाप्यन्यायेन पृच्छतः ॥ शान्ति २८७/३५

ततो वासं परीक्षेत धर्मनित्येषु साधुषु ।
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च ॥ शान्ति २८७/३६