महाभारतसूक्तयः (अज्ञानम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम्।
अज्ञानात् क्लेशमाप्नोति तथापत्सु निमज्जति॥ शान्ति १५९/३॥

रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता।
कामः क्रोधश्च दर्पश्च तन्द्री चालस्यमेव च॥ शान्ति १५९/६॥

इच्छा द्वेषस्तथा तापः परवृध्द्युपतापिता।
अज्ञानमेतन्निर्दिष्टं पापानां चैव याः क्रियाः॥ शान्ति १५९/७॥

लोभप्रभवमज्ञानं वृध्दं भूयः प्रवर्धते।
स्थाने स्थानं क्षये क्षैण्यमुपैति विविधां गतिम्॥ शान्ति १५९/१०॥

मूलं लोभस्य मोहो वै कालात्मगतिरेव च।
छिन्ने भिन्ने तथा लोभे कारणं काल एव च॥ शान्ति १५९/११॥

तस्याज्ञानाध्दि लोभो हि लोभादज्ञानमेव च।
सर्वदोषास्तथा लोभात् तस्माल्लोभं विवर्जयेत्॥ शान्ति १५९/१२॥

एकःशत्रुर्न द्वितीयोऽस्ति शत्रुरज्ञानतुल्यः पुरुषस्य राजन्।
येनावृतः कुरुते सम्प्रयुक्तो घोराणि कर्माणि सुदारुणानि॥ शान्ति २९७/२८॥

अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः।
अनर्थे चार्थसंज्ञस्त्वं किमर्थं नावबुध्द्यसे॥ शान्ति ३२९/२७॥

संवेष्ट्यमानं बहुभिर्मोहात् तन्तुभिरात्मजैः।
कोषकार इवात्मानं वेष्टयन् नावबुध्यसे॥ शान्ति ३२९/२८॥

अलं परिग्रहेणेह दोषवान् हि परिग्रहः।
कृमिर्हि कोषकारस्तु बध्यते स परिग्रहात्॥ शान्ति ३२९/२९॥

पुत्रदार कुटुम्बेषु सक्ताः सीदन्ति जन्तवः।
सरः पङ्कार्णवे मग्ना जीर्णा वनगजा इव॥ शान्ति ३२९/३०॥

कुटुम्बं पुत्रदारांश्च शरीरं संचयाश्च ये।
पारक्यमध्रुवं सर्वं किं स्वं सुकृत दुष्कृतम्॥ शान्ति ३२९/३२॥

यदा सर्वं परित्यज्य गन्तव्यमवशेन ते।
अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्ठसि॥ शान्ति ३२९/३३॥

अविश्रान्तमनालम्बापाथेमदैशिकम्।
तमः कान्तारमध्वानं कथमेको गमिष्यसि॥ शान्ति ३२९/३४॥