महाभारतसूक्तयः (अतिथिः)
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति॥ शान्ति १९१/१२॥
स्वदेशे परदेशे वा अतिथिं नोपवासयेत्।
काम्यकर्मफलं लब्ध्वा गुरूणामुपपादयेत्॥ शान्ति १९३/१५॥
गृहस्थानां च सुश्रोणि नातिथेर्विद्यते परम्॥ अनुशासन २/४४॥
चक्षुर्दद्यान्मनो दद्याद् वाचं दद्याच्च सूनृताम्।
अनुव्रजेदुपासीत् स यज्ञः पञ्चदक्षिणः॥ अनुशासन ७/६॥
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्॥ अनुशासन ७/७॥
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम्।
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः॥ अनुशासन ७/१२॥
श्रान्तमध्वनि वर्तन्तं वृध्दमर्हमुपस्थितम्।
अर्चयेद् भूतिमन्विच्छन् गृहस्थो गृहमागतम्॥ अनुशासन ६३/१३॥
नावमन्येदभिगतं न प्रणुद्यात् कदाचन।
अपि श्वपाके शुनि वा न दानं विप्रणश्यति॥ अनुशासन ६३/९३॥
अनित्यं हि स्थितो यस्मात् तस्मदतिथिरुच्यते॥ अनुशासन ९७/१९॥
श्रान्तमध्वपरिश्रान्तमतिथिं गृहमागतम्।
अर्चयीत प्रयत्नेन स हि यज्ञो वरप्रदः॥ अनुशासन १४५ दा.पा.॥
अभ्यागतो ज्ञातपूर्वो ह्यज्ञातोऽतिथिरुच्यते।
तयोः पूजां द्विजः कुर्यादिति पौराणिकी श्रुतिः॥ ॥ अश्व ९२ दा. पा. अ.VI॥
मोघमन्नं सदाश्नाति योऽतिथिं न च पूजयेत्॥ ॥ अश्व ९२ दा. पा. अ.VI॥
अतिथिं नावमन्येत नान्नृता गिरमीरयेत्।
न पृच्छेद् गोत्रचरणं नाधीतं वा कदाचन॥ ॥ अश्व ९२ दा. पा. अ.XIII॥
यदर्थो हि नरो राजंस्तदर्थोऽस्यातिथिः स्मृतः॥ आश्रुमवास २६/३७॥