महाभारतसूक्तयः (अनित्यम्)
अनित्यं यौवनं यूपं जीवितं द्रव्यसंचयः। शान्ति ३३०/१४॥
आरोग्यं प्रियसंवासो गृध्द्येदेषु न पण्डितः॥
स्त्री २/२५॥ शान्ति २०५/४॥
यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु पूरुषः।
अन्यद् रोचयते वस्त्रमेव देहाः शरीरिणाम्॥ स्त्री ३/९॥
बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च।
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्र्याः॥ शान्ति २७/२९॥
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्॥ आश्व ४४/१९॥
न ह्यह्यनि निवर्तन्ते न मासा न पुनः समाः।
जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः॥ शान्ति २८/४९॥
अनित्यं सर्वमेवैतदहं च मम चास्ति यत्।। शान्ति १०४/१२॥
यत् किंचिन्मन्यसेऽस्तीति सर्वं नास्ति विध्दि तत्।
एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः॥ शान्ति १०४/१३॥
यच्च पूर्वं समाहारे यच्च पूर्वं परे परे।
सर्वं तन्नास्ति ते चैव तज्ज्ञात्वा कोऽनुसंज्वरेत्॥ शान्ति १०४/१५॥
क्व नु तेऽद्य पिता राजन् क्व नु तेऽद्य पितामहः।
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च॥ शान्ति १०४/१७॥
निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति।
स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत्॥ शान्ति ३३०/२२॥
अहान्यस्तमायान्ति उदयान्ता च शर्वरी।
सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम्॥ आश्व ४४/१८॥
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्।
अशाश्वतं हि लोकेऽस्मिन् सदा स्थावरजङ्गमम्॥ आश्व ४४/२०॥
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये।
सर्वमेतद् विनाशान्तं ज्ञानस्यान्तो न विद्यते॥ आश्व ४४/२१॥