महाभारतसूक्तयः (अन्नम्)
अन्नाद् गृहस्था लोकेऽस्मिन् भिक्षवस्तत एव च।
अन्नात् प्राणः प्रभवति अन्नदः प्राणदो भवेत्॥ शान्ति १८/२८॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्।
आयुः सुवर्णकारान्नमवीरायाश्च योषितः॥ शान्ति ३६/२७॥
पिष्टस्य चेक्षुशाकानां विकाराः पयसस्तथा।
सक्तूधानाकरम्भाणां नोपभोग्याश्चिरस्थिताः॥ शान्ति ३६/३२॥
चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि।
आपः पिपासतामन्नमन्नं शूरस्य कातराः॥ शान्ति ८८/१५॥
प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः॥ शान्ति १२१/३९॥
भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः॥ शान्ति २६४/१३॥
लोकतन्त्रं हि संज्ञाश्च सर्वमन्ने प्रतिष्ठितम्॥ अनुशासन ६३/५॥
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः।
अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो॥ अनुशासन ६३/७॥
अन्नाद् गृहस्था लोकेऽस्मिन् भिक्षवस्तापसास्तथा।
अन्नाद् भवन्ति वै प्राणाः प्रत्यक्षं नात्र संशयः॥ अनुशासन ६३/८॥
यो दद्यादपरिक्लिष्टमध्वनि वर्तते।
आर्तायादृष्टपूर्वाय स महध्दर्ममाप्नुयात्॥ अनुशासन ६३/१४॥
प्रत्यक्षं प्रीतिजननं भोक्तुर्दातुर्भवत्युत।
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत॥ अनुशासन ६३/२९॥
अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः।
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम्॥ अनुशासन ६३/३१॥
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्चधातवः।
बलं बलवतोऽपीह प्रणशत्यन्नहानितः॥ अनुशासन ६३/३२॥
आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा।
निवर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते॥ अनुशासन ६३/३३॥
अन्नं वै प्रथमं द्रव्यमन्नं श्रीश्च परा मता।
अन्नात् प्राणः प्रभवति तेजो वीर्यं बलं तथा॥ अनुशासन ६६/५९॥
जातकर्माणि सर्वाणि व्रतोपनयनानि च।
गोदानानि विवाहाश्च तथा यज्ञसमृध्दयः॥ अनुशासन ९५/२३॥
शास्त्राणि दानानि तथा संयोगा वित्तसंचयाः।
अन्नतः सम्प्रवर्तन्ते तथा त्वं वेत्थ भार्गव॥ अनुशासन ९५/२४॥
रमणीयानि यावन्ति यावदारम्भकाणि च।
सर्वमन्नात् प्रभवति विदितं किर्तयामि ते॥ अनुशासन ९५/२५॥
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम्॥ अनुशासन ११२/१०॥
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते।
अन्ने प्रतिष्ठितो लोकस्तस्मादन्नं प्रशस्यते॥ अनुशासन ११२/११॥
दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः।
ते हि प्राणस्य दातारस्तेभ्यो धर्मः सनातनः॥ अनुशासन ११२/२४॥
अन्नं हि परमा गतिः॥ अनुशासन ११२/२५॥
ग्राम्यादारण्यकैः सिध्दं श्रेष्ठमित्यवधारय॥ अनुशासन १४५ दा.पा.अ.XI॥
अन्नं प्राणो मनुष्याणामन्नदः प्राणदो भवेत्।
तस्मादन्नं विशेषेण दातुमिच्छति मानवः॥ अनुशासन १४५ दा.पा.अ.XI॥
आत्मार्थे पाचयन्नन्नं ममत्वेनोपहन्यते॥ आश्व २५/९॥
भुञ्जीतान्नमकुत्सयन्॥ आश्व ४६/३॥
अन्नाद् रक्तं च शुक्रं च अन्ने जीवः प्रतिष्ठितः।
इन्द्रयाणि च बुध्दिश्च पुष्णन्त्यन्नेन नित्यशः॥ आश्व ९२ दा.पा.अ.VI॥
तेजो बलं च रूपं च सत्वं वीर्यं धृति र्द्युतिः।
ज्ञानं मेधा तथाऽऽयुश्च सर्वमन्ने प्रतिष्ठितम्॥ आश्व ९२ दा.पा.अ.VI॥
सर्व कालं हि सर्वेषां अन्ने प्राणाः प्रतिष्ठिताः॥ आश्व ९२ दा.पा.अ.VI॥
अन्नं प्रजापते रूपमन्नं प्रजननं स्मृतम्।
सर्वभूतमयं चान्नं जीवश्चान्नमयः स्मृतः॥ आश्व ९२ दा.पा.अ.VI॥
अन्नेनाधिष्ठितः प्राण अपानो व्यान एव च।
उदानश्च समानश्च धाग्यन्ति शरीरिणम्॥ आश्व ९२ दा.पा.अ.VI॥
शयनोत्थान गमनग्रहणाकर्षणानि च।
सर्वसत्त्वकृतं कर्म चानादेव प्रवर्तते॥ आश्व ९२ दा.पा.अ.VI॥
अन्नेन सदृशं दानं न भूतं न भविष्यति॥ आश्व ९२ दा.पा.अ.XII॥
अन्नमूर्जस्करं लोके ह्यन्नात् प्राणाः प्रतिष्ठिताः॥ आश्व ९२ दा.पा.अ.XII॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्।
आयुः सुवर्णकारान्नं यशश्चर्मविकृन्तिनः॥ आश्व ९२ दा.पा.अ.XII॥
जलदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः॥ आश्व ९२ दा.पा.अ.XII॥
अन्नेन धार्यते सर्वं जगदेतच्चराचरम्।
अन्नात् प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः॥ आश्व ९२ दा.पा.अ.XIII॥
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता॥ आश्व ९२ दा.पा.अ.XIII॥
चण्डालो वा श्वपाको वा काले यः कश्चिदागतः।
अन्नेन पूजनीयः स्यात् परत्र हितमिच्छता॥ आश्व ९२ दा.पा.अ.XIII॥
पिधाय तु गृहद्वारं भुङ्क्ते योऽन्नं प्रहृष्टवान्।
स्वर्गद्वारपिधानं वै कृतं तेन युधिष्ठिर॥ आश्व ९२ दा.पा.अ.XIII॥
अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत्।
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता॥ आश्व ९२ दा.पा.अ.XIII॥
अन्नं ह्यमृतमित्याहुरन्नं प्रजननं स्मृतम्।
अन्नप्रणाशे सीदन्ति शरीरे पञ्चधातवः॥ आश्व ९२ दा.पा.अ.XIII॥
बलं बलवतो नश्येदन्नहीनस्य देहिनः।
तस्मादन्नं विशेषेण श्रध्दयाश्रध्दयापि वा॥ आश्व ९२ दा.पा.अ.XIII॥
आदत्ते हि रसं सर्वमादित्यः स्वगभस्तिभिः।
वायुस्तस्मात् समादाय रसं मेघेषु धारयेत्॥ आश्व ९२ दा.पा.अ.XIII॥
तत् तु मेघगतं भूमौ शक्रो वर्षति तादृशम्।
तेन दिग्धा भवेद् देवी मही प्रीता च भारत॥ आश्व ९२ दा.पा.अ.XIII॥
तस्यां सस्यानि रोहन्ति यै जीविन्त्यखिलाः प्रजाः।
मांसमेदोऽस्थिमज्जानां सम्भवस्तेभ्य एव हि॥ आश्व ९२ दा.पा.अ.XIII॥