महाभारतसूक्तयः (अपमाननम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

अवज्ञानं हि लोकेऽस्मिन् मरणादपि गर्हितम्॥ वन २८/१२॥

गुरूणामवमानो हि वध इत्यभिधीयते॥ कर्ण. ७०/५२॥

सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते।
स्वजनेन त्ववज्ञातं परे परिभवन्त्युत॥ शान्ति. ६७/३५॥

जाग्रतीह निराकृताः॥ शान्ति.१०३/३१॥

अवज्ञानमहंकारो दम्भश्चैव विगर्हितः।
अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः॥ शान्ति.१९१/१५॥

अमृतस्येव संतृप्येदवमानस्य तत्त्ववित्।
विषस्येवोद्विजेन्नित्यं सम्मानस्य विचक्षणः॥ शान्ति.२२९/२१॥

अवज्ञातः सुखं शेते इह चामुत्र चाभयम्।
विमुक्तः सर्वदोषेभ्यो योऽवमन्ता स बध्यते॥ शान्ति. २२९/२२॥

आक्रोशनविमानाभ्यां नाबुधान् बोधयेद् बुधः।
तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत्॥ शान्ति.२९९/२५॥

अमृतस्येव संतृप्येदवमानस्य पण्डितः।
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति॥ शान्ति.२९९/२६॥