महाभारतसूक्तयः (अर्जुनः)

विकिसूक्तिः तः
Jump to navigation Jump to search

वषुषा हि तु भूतानां नेत्राणि हृदयानि च।
श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम्॥ आदि १९९/७ दा.पा.॥

न ह्मुक्तं न चासक्तं नानृतं न च विप्रियम्।
भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती॥ आदि १९९/७ दा.पा.॥

कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः।
बलेन सदृशं नास्ति वीर्यं तु मम रोचते॥ सभा.१६/८॥

आत्मा हि कृष्णः पार्थस्य कृष्णस्यात्मा धनञ्जयः॥ सभा ५२/३१॥

यद् ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम्।
कृष्णो धनञ्जयस्यार्थे स्वर्गलोकमपि त्यजेत्॥ सभा. ५२/३२॥

तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत्॥ सभा.५२/३३॥

चलेद्धिहिमवान् स्थानान्निष्प्रभः स्याद् दिवाकरः।
शैत्यं सोमात् प्रणश्येत् मत्सत्यं विचलेत् यदि॥ सभा.७७/३५॥

ममैव त्वं तवैवाहं ये मदीयास्तवैव ते।
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु॥ वन.१२/४५॥

अनन्यः पार्थ मत्तस्त्वं त्वत्तश्चाहं तथैव च।
नावायोरन्तरं शक्यं वेदितुं भरतर्षभ॥ वन.१२/४७॥

एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम्॥ विराट. २/१८॥

रथी शरी चारुतली निषङ्गी शंखी पताकी कची किरीटी।
खड्गी च धन्वी च विभाति पार्थः शिखी वृत्तः स्रुग्भिरिवाज्यसिक्तः॥ ॥ विराट २३/९॥

अनाथान् दुःखितान् दीनान् कृशान् वृद्धान् पराजितान्।
न्यस्तशस्त्रान् निराशांश्च नाहं हन्मि कृताञ्जलीन्॥ ॥ विराट ६७/४ दा.पा.॥

समर्थो बलवान् पार्थो दृढधन्वा जितक्लमः॥ उद्योग.५२/६॥

एकान्तविजयस्त्वेव श्रूयते फाल्गुनस्य॥ उद्योग.५२/१०॥

दर्शनीयो मनस्वी च लक्ष्मीवान् ब्रह्मवर्चसी।
मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः॥ उद्योग.५३/८॥

बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता।
अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते॥ उद्योग.५९/२९॥

तेजसाऽऽदित्यसदृशो महर्षिसदृशो दमे।
क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः॥ उद्योग.९०/३०॥

धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता कदाचित्॥ ॥ भीष्म.२२/१०॥

योधानामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम्॥ द्रोण.७/२९॥

न स्मराम्यनृतं तावन्न स्मरामि पराजयम्।
न स्मरामि प्रतिश्रुत्य किंचिदप्यनृतं कृतम्॥ द्रोण.१३/१४॥

न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः॥ द्रोण.७९/२६॥

कश्चिदन्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात्॥ द्रोण.७९/२७॥

यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चानु स मामनु।
इति संकल्प्यतां बुद्ध्या शरीरार्द्धं ममार्जुनः॥ द्रोण. ७९/३३॥

बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः।
धनुषा फाल्गुनः शूरः कर्णः शूरोः मनोरथैः॥ द्रोण.१५८/२३॥

ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे।
शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे॥ द्रोण.१८८/४५॥

सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः॥ कर्ण.४०/११॥

कान्त्या शशाङ्कस्य जवेन वायोः स्थैर्येण मेरोः क्षमया पृथिव्याः।
सूर्यस्य भासा धनदस्य लक्ष्म्या शौर्येण शक्रस्य बलेन विष्णोः॥॥ कर्ण.६८/१३॥

अस्मात् पुरो नो भविता धुनर्धरो नैनं भूतं किंचन जातु जेता।
इच्छन्नयं सर्वभूतानि कुर्याद् वशे वशी सर्व समाप्तविद्याः॥ कर्ण.६८/१२॥

युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च।
न त्वया सदृशः कश्चित् त्रिषु लोकेषु विद्यते॥ शान्ति.१९/६॥

एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत्।
न च तत् कृतवानेष शूरमानी ततोऽपतत्॥ महाप्रस्थान २/२१॥

अवमेने धनुर्ग्राहानेषु सर्वांश्च फाल्गुनः।
तथा चैतन्न तु तथा कर्तव्यं भूतिमिच्छता॥ महाप्रस्थान २/२२॥