महाभारतसूक्तयः (अलसः)

विकिसूक्तिः तः
Jump to navigation Jump to search

एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित्॥ वन.३२/४०॥

अलक्ष्मीराविशत्येनं शयानमलसं नरम्॥ वन.३२/४२॥

अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम्।
न हि निर्वेदमागम्य किंचित् प्राप्नोति शोभनम्॥ वन.२१६/२६॥

तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः।
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते॥ सौप्तिक.२/१२॥

शक्नोति जीवितुं दक्षो नालसः सुखमेघते॥ सौप्तिक.२/१५॥

न हि प्रमादात् परमस्ति कश्चिद् वधो नराणामिह जीवलोके।
प्रमत्तमर्था हि नरं समन्तात् त्यजन्त्यनर्थाश्च समाविशन्ति॥सौप्तिक.१०/१९॥

न हि प्रमत्तेन नरेण शक्यं विद्या तपः श्रीर्विर्पुलं यशो वा॥सौप्तिक.१०/२२॥

सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम्।
भूतिः श्रीर्ह्नीर्घृतिः कीर्तिदक्षे वसति नालसे॥ शान्ति.२७/३१॥

नालसाः प्राप्नुवन्त्यर्थान् न क्लीबा नाभिमानिनः।
न च लोकरवाद् भीता न वै शश्वत् प्रतीक्षिणः॥ शान्ति.१४०/२३॥

सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम्।
भूतिस्त्वेवं श्रिया सार्धं दक्षे वसति नालसे॥ शान्ति.१७४/३८॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(अलसः)&oldid=15596" इत्यस्माद् प्रतिप्राप्तम्