महाभारतसूक्तयः (अवसरः)

विकिसूक्तिः तः
Jump to navigation Jump to search

अन्यथा ह्याचरन् कर्म पुरुषः स्यात् सुबालिशः॥ उद्योग.५/२॥

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्।
लभते बुद्ध्यवज्ञानमवमानं च भारत॥ उद्योग.३९/२॥

न कर्मणा लभ्यते चिन्तया वा नाप्यस्ति दाता पुरुषस्य कश्चित्।
पर्याययोगाद् विहितं विधात्रा कालेन सर्वं लभते मनुष्यः॥ शान्ति.२५/५॥

न बुद्धिशास्त्राध्ययनेन शक्यं प्राप्तुं विशेषं मनुजैरकाले।
मूर्खोऽपि चाप्नोति कदाचिदर्थान् कालो हि कार्यं प्रति निर्विशेषः॥ शान्ति.२५/६॥

प्राप्ते च प्रहरेत् काले न संवर्तते पुनः॥ शान्ति.१०३/२०॥

कालातीतमिहार्थं तु न प्रशंसन्ति पण्डिताः॥ शान्ति.१३८/६०॥

अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते।
तदेव काल आरब्धं महतेऽर्थाय कल्पते॥ शान्ति.१३८/९५॥