महाभारतसूक्तयः (असत्यम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

नानृतं हि सदा लोके पूज्यते दानवोत्तम॥ आदि ५/३४॥

न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन् न विवाहकाले।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि॥ आदि ८२/१६॥

पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्या पतितं नरेन्द्र।
एकार्थतायां तु समाहितायां मिथ्या वदन्तं त्वनृतं हिनस्ति॥ आदि ८२/१७॥

न रूपमनृतस्यास्ति नानृतस्यास्ति संततिः।
नानृतस्याधिपत्यं च कुत एव गतिः शुभा। उद्योग.१०७/९॥

अनृतं जीवितस्यार्थे वदन्न स्पृश्तेऽनृतैः॥ द्रोण.१९०/४७॥

प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य च।
गुर्वर्थे स्त्रीषु चैव स्याद् विवाहकरणेषु च॥ शान्ति.३४/२५॥

प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्॥ शान्ति.१०९/१९॥

अर्थस्य रक्षणार्थाय परेषां धर्मकारणात्।
अनृतं तमसो रूपं तमसा नीयते ह्यधः।
तमोग्रस्ता न पश्यन्ति प्रकाशं तमसाऽऽवृत्तः॥ शान्ति.१०९/२॥

नायं लोकोऽस्ति न परो न च पूर्वान् स तारयेत्।
कुत एष जनिष्यांस्तु मृषावादपरायणः॥ शान्ति.१९९/६१॥

मृषावादे भवेद् दोषाः सत्ये दोषो न विद्यते॥ अनुशासन ३८/९॥

अनृतं न वदेद् विद्वांस्तपस्तप्त्वा न विस्मयेत्।
नार्तोऽप्यभिभवेद् विप्रान् न दत्त्वा परिकीर्तयेत्॥ आश्व.दा.पा.अ.XII॥

यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात्।
आयुर्विप्रावमानेन दानं तु परिकीर्तनात्॥ आश्व.दा.पा.अ.XII॥