महाभारतसूक्तयः (असन्तोषः)

विकिसूक्तिः तः
Jump to navigation Jump to search

<poem> असन्तोषः श्रियो मूलं तस्मात् तं कामयाम्यहम्। समुच्छ्र्ये यो यतते स राजन् परमो नयः॥ सभा.५५/११॥

असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः॥ वन.२१६/२२॥

वैचित्रवीर्य पुरुषाः क्रोधहर्षसमावृताः। सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः॥ उद्योग.६९/१३॥

यमस्य वशमायान्ति काममूढाः पुनः पुनः। अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः॥ उद्योग.६९/१४॥