महाभारतसूक्तयः (अहङ्कारः)
दर्पान्मानः समभवन्मानात् क्रोधोव्यजायत।
क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत्॥ वन.९४/८॥
तानलज्जान् गतह्रीकान् हीनवृत्तान् वृथाव्रतान्।
क्षमा लक्ष्मीः स्वधर्मश्च न चिरात् प्रजहुस्ततः॥ वन.९४/९॥
न हि मानप्रदग्धानां कश्चिदस्ति शमः क्वचित्॥ उद्योग.१२३/१७॥
न गर्वेण भवेत् प्राज्ञः कदाचिदपि मानवः॥ शान्ति.३६/९॥
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः।
राजा भवति तं जित्वा दासस्तेन पराजितः॥ शान्ति.९०/२८॥
सर्वे लाभाः साभिमाना इति सत्यवती श्रुतिः॥ शान्ति.१८०/१०॥
अज्ञान प्रभवं दुःखमहंकारं परित्यजेत्॥ शान्ति.२१२/१८॥
महाभीतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः।
त्रैलोक्यं सेश्वरं सर्वमहंकारे प्रतिष्ठितम्॥ शान्ति.२१२/१९॥
यथेह नियतः कालो दर्शयत्यार्तवान् गुणान्।
तद्वद् भूतेष्वहंकारं विद्यात् कर्मप्रवर्तकम्॥ शान्ति.२१२/२०॥
प्रवश्च प्रभावश्च नात्मसंस्थः कदाचन॥ शान्ति.२२४/२७॥
मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम्॥ शान्ति.२२७/६४॥
एवं स्वराज्यनाशे त्वं शोकं सम्प्रसहिष्यसि।
अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परेषाम्।
प्रभ्रश्यतेऽसौ चरते न सत्यं लोकास्तस्य ह्यन्तवन्तो भवन्ति॥ अनु.२२/१३॥
अभिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः।
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः॥ अनुशासन ३६/१७॥
अन्यथा बहु बुद्ध्याढ्यो वाक्यं वदति संसदि।
अन्यथैव ह्यहंवादी दुर्बलं वदते वचः॥ अनु.१४६/३०॥