सामग्री पर जाएँ

महाभारतसूक्तयः (अहिंसा)

विकिसूक्तिः तः

न वधः पूज्यते वेदे हितं नैव कथंचन॥ भीष्म ३/५४॥

अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः॥ द्रोण.१९२/३८॥

प्राणिनामवधस्तात सर्वज्यायान् मतो मम।
अनृतां वा वदेद् वाचं न तु हिंस्यात् कथंचन॥ कर्ण.६९/२३॥

अयुध्यमानस्य वधस्तथाशत्रोश्च मानद।
पराङ्मुखस्य द्रवतः शरणं चापि गच्छतः॥ कर्ण.६९/२५॥

कृताञ्जलेः प्रपन्नस्य प्रमत्तस्य तथैव च।
न वधः पूज्यते सद्भिस्तच्च सर्वं गुरौ तव॥ कर्ण.६९/२६॥

प्रकीर्णकेशे विमुखे ब्राह्मणेऽथ कृताञ्जलौ॥ कर्ण. ९०/१११॥

शरणागते न्यस्तशस्त्रे याचमाने तथाऽर्जुन।
अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा॥ कर्ण.९०/११२॥

न विमुञ्जन्ति शस्त्राणि शूराः साधुव्रते स्थिताः।
न वधः पूज्यते लोके सुप्तानामिह धर्मतः।
तथैवपास्तशस्त्राणां विमुक्तरथवाजिनाम्॥ सौप्तिक ५/११॥

ये च ब्रूयूस्तवास्मीति ये च स्युः शरणागताः।
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः॥ सौप्तिक ५/१२॥

गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा॥ सौप्तिक ६/२१॥

हीनप्राणजडान्धेषु सुप्तभीतोत्थितेषु च।
मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च पातयेत्॥ सौप्तिक ६/२२॥

वृथा पशुसमालम्भं नैव कुर्यान्न कारयेत्॥ शान्ति.३४/२८॥

मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम्।
नायुद्ध्यमानो हन्तव्यो न च ग्राह्या बलात् स्त्रियः॥ शान्ति.१३५/१३॥

सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु केनचित्॥ शान्ति.१३५/१४॥

न हिंसयति यो जन्तून् मनोवाक्काय हेतुभिः।
जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते॥ शान्ति.१७५/२७॥

एवं सर्वमहिंसायां धर्मर्थमपिधीयते।
अमृतः स नित्यं वसति यो हिंसां न प्रपद्यते॥ शान्ति.२४५/१९॥

सर्वकर्मस्वहिंसा हि धर्मात्मा मनुरब्रबीत्।
कामकाराद् विहिंसन्ति बहिर्वेद्यां पशून् नराः॥ शान्ति.२६५/५॥

अहिंसा सर्वभूतेभ्यो धर्मेभ्यो ज्यायसी मता॥ शान्ति.२६५/६॥

सुरा मत्स्या मधु मांसमासवं कृसरौदनम्।
धूर्तैः प्रवर्त्तितं ह्येतन्नैतद् वेदेषु कल्पितम्॥ शान्ति.२६५/९॥

यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत्॥ शान्ति.२६५/१४॥

अहिंसा सकलो धर्मो हिंसाधर्मस्तथाहितः॥ शान्ति.२७२/२०॥

रूपमैश्वर्यमारोग्यमहिंसा फलमश्नुते॥ अनुशासन ७/१५॥

आत्मोपमस्तु भूतेषु यो वै भवति पूरुषः।
न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते॥ अनु.११३/६॥

यथा नागपदेऽन्यानि पदानि पदगामिनाम्।
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे॥ अनु.११४/६॥

एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः पुरा।
कर्मणा लिप्यते जन्तुर्वाचा च मनसापि च॥ अनु.११४/७॥

पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा।
न भक्षयति यो मांसं त्रिविधं स विमुच्यते॥ अनु.११४/८॥

रूपमव्यङ्गतामायुर्बुद्धि सत्वं बलं स्मृतिम्।
प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै महात्मभिः॥ अनु.११५/६॥

अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु।
साधूनां सम्मतो नित्यं भवेन्मांसं विवर्जयन्॥ अनु.११५/११॥

अहिंसा परमो धर्मस्तथाहिंसा परं तपः।
अहिंसा परमं सत्यं यतो धर्मः प्रवर्तते॥ अनु.११५/२३॥

शरण्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु।
अनुद्वेगकरो लोके न चाप्युद्विजते सदा॥ अनु.११५/२८॥

धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्।
मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः॥ अनु.११५/३५॥

ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम्।
भक्ष्यन्ते तेऽपि भूतैस्तैरिति मे नास्ति संशयः॥ अनु.११६/२४॥

माम् स भक्षयते यस्माद् भक्षयिष्ये तमप्यहम्।
एतन्मांसस्य मांसत्वमनुबुद्ध्यस्व भारत॥ अनु.११६/२५॥

येन येन शरीरेण यद् यत् कर्म करोति यः।
तेन तेन शरीरेण तत्तत् फलमुपाश्नुते॥ अनु.११६/२७॥

अहिंसा परमो यज्ञस्तथाहिंसा परमं फलम्।
अहिंसा परमं मित्रमहिंसा परमं सुखम्॥ अनु.११६/२९॥

अहिंस्त्रस्य तपोऽक्षय्यमहिंस्त्रो यजते सदा।
अहिंस्त्रः सर्वभूतानां यथा माता तथा पिता॥ अनु.११६/३१॥

अहिंसा परमो धर्मो ह्यहिंसा परमं सुखम्।
अहिंसा धर्मशास्त्रेषु सर्वेषु परमं पदम्॥ अनु.१४५ दा.पा.॥

अहिंसा सर्वभूतानामेतत् कृत्यतमं मतम्॥ आश्व.५०/२॥