महाभारतसूक्तयः (आत्मप्रशंसा)
कामं नैतत् प्रशंसन्ति सन्तः स्वबलसंस्तवम्।
गुणसंकीर्तनं चापि स्वयमेव शतक्रतो॥ आदि.३४/२॥
न ह्यात्मस्तव संयुक्तं वक्तव्यमनिमित्ततः॥ आदि.३४/३॥
किं श्लाघसे दुर्लभो वै मनीषी॥ वन.१३३/८॥
न लोके राजते मूर्खः केवलमात्मप्रशंसया॥ वन.२०७/४९॥
असदाचरितं ह्येतद् यदात्मानं प्रशंसति॥ उद्योग.६१/२४॥
आर्येण हि न वक्तव्या कदाचित् स्तुतिरात्मनः॥ द्रोण.१९५/२१॥
सर्वो हि मन्यते लोक आत्मनं बुद्धिमत्तरम्।
सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति॥ सौप्तिक ३/४॥
निर्गुणास्त्वेव भूयिष्ठमात्मसम्भाविता नराः।
दोषैरन्यान् गुणवतः क्षिपन्त्यात्मगुणक्षयात्॥ शान्ति.२८७/२६॥
अनुच्यमानास्तु पुनस्ते मन्यन्ते महाजनात्।
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः॥ शान्ति.२८७/२७॥
अब्रुवन् कस्यचिन्निन्दामात्मपूजामवर्णयन्।
विपश्चिद् गुणसम्पन्नः प्राप्नोत्येव महद् यशः॥ शान्ति.२८७/२८॥
अब्रुवन् वाति सुरभिगन्धिः सुमनसां शुचिः।
तथैवाव्याहरन् भाति विमलो भानुरम्बरे॥ शान्ति.८७/२९॥
न लोके दीप्यते मूर्खः केवलात्मप्रशंसया।
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते॥ शान्ति.२८७/३१॥
असदुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति।
दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम्॥ शान्ति.२८७/३२॥