महाभारतसूक्तयः (आत्मा)

विकिसूक्तिः तः
Jump to navigation Jump to search

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।
न चैव भविष्यामः सर्वे वयमतः परमः॥ भीष्म.२६/१२; गीता२/१२॥

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥ भीष्म.२६/१३; गीता२/१३॥

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।
अनाशिनोऽप्रमेयस्य तस्माद् युध्यस्व भारत॥ भीष्म.२६/१७; गीता२/१८॥

न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा ना भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥ भीष्म.२६/२०; गीता२/२०॥

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही॥॥ भीष्म.२६/२२; गीता२/२२॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥॥ भीष्म.२६/२३; गीता२/२३॥

अव्यक्योऽयमचिन्त्योऽयमविकार्योऽयमुच्यते।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥ भीष्म.२६/२५; गीता२/२५॥

न बिभेति यदा चायं यदा चास्मान्न बिभ्यति।
कामद्वेषौ च जयति तदाऽऽत्मानं च पश्यति॥ शान्ति.२१/४॥

यदासौ सर्वभूतानां न दुह्यति न काङ्क्षति।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ शान्ति.२१/५॥

आत्मा फलति कर्माणि नाश्रमो धर्मकारणम्॥ शान्ति.१११/१३॥

बहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा।
भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः॥ शान्ति.१६७/५॥

आत्मा क्षेत्रज्ञ इत्युक्तः संयुक्तः प्राकृतैर्गुणैः।
तैरेव तु विनिर्मुक्तः परमात्मेत्युदाहृतः॥ शान्ति.१८७/२३॥

आत्मानं तं विजानीहि सर्वलोकहितात्मकम्।।
तस्मिन् यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे॥ शान्ति.१८७/२४॥

न चात्मा शक्यते द्रष्टुमिन्द्रियैश्च विभागशः।
तत्र तत्र विसृष्टैश्च दुर्वार्यैश्चाकृतात्मभिः॥ शान्ति.१९४/५८॥

राजसैर्तामासैर्भावै युक्तो हेतुबलान्वितः।
क्षेत्रज्ञमेवानुयाति पांसुर्वातेरितो यथा॥ शान्ति.२११/१३॥

न च स्पृशते भावैर्न ते तेन महात्मना।
सरजस्कोऽरजस्कश्च नैव वायुर्भवेद् यथा॥ शान्ति.२११/१४॥

बीजान्यग्न्युपदिग्धानि न रोहन्ति यथा पुनः।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः॥ शान्ति.२११/१७॥

लोहयुक्तं यथा हेम विपक्वं न विराजते।
तथापक्वकषायाख्यं विज्ञानं न प्रकाशते॥ शान्ति.२१२/६॥

इन्द्रियाणि मनोयुङ्क्ते वश्यान् यन्तेव वाजिनः।
मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः॥ शान्ति.२३९/११॥

यथा मरीच्यः सहिताश्चरिन्त सर्वत्र तिष्ठन्ति च दृश्यमानाः।
देहै र्विमुक्तानि चरन्ति लोकांस्तथैव सत्त्वान्यतिमानुषाणि॥ शान्ति.२५३/२॥

जाजले तीर्थमात्मैव मा स्म देशातिथिर्भव॥ शान्ति.२६३/४३॥

नेशेऽयं सततं देही नृपते पापपुण्ययोः।
तत एव समुत्थेन तमसा रुध्यतेऽपि च॥ शान्ति.२७९/८॥

ज्ञानेन हि यदा जन्तुरज्ञान प्रभवं तमः।
व्यपोहति तदा ब्रह्म प्रकाशति सनातनम्॥ शान्ति.२७९/११॥

अयत्नसाध्यं मुनयो वदन्ति ये चापि मुक्तास्त उपासितव्याः॥ शान्ति.२७९/१२॥

निर्विकारः सदैवात्मा स्त्रीत्वं पुंस्त्वं न चात्मनि।
कर्मप्रकारेण तथा जात्यां जात्यां प्रजायते॥
कृत्वा तु पौरुषं कर्म स्त्री पुमानपि जायते।
स्त्री भावयुक् पुमान् कृत्वा कर्मणा प्रमदा भवेत्॥ अनु.१४५ दा.पा.VIII॥

श्रृणु भामिनि कर्तारमात्मा हि न च कर्मकृत्।
प्रकृत्या गुणयुक्तेन क्रियते कर्म नित्यशः॥ अनु.१४५ दा.पा.VIII॥

शरीरं प्राणिनां लोके यथा पित्तकफानिलैः।
व्याप्तमेभिस्त्रिभिर्दोषैस्तथा व्याप्तं त्रिभिर्गुणैः॥ अनु.१४५ दा.पा.अ.VIII॥

सत्त्वं रजस्तमश्चैव गुणास्त्वेते शरीरिणः।
प्रकाशात्मकमेतेषां सत्त्वं सततमिष्यते॥
रजो दुःखात्मकं तत्र तमो मोहात्मकं स्मृतम्।
त्रिभिरेतैर्गुणैयुक्तं लोके कर्म प्रवर्तते॥ अनु.१४५ दा.पा.अ.VIII॥

सत्यं प्राणिदया शौचं श्रेयः प्रीतिः क्षमा दमः।
एवमादि तथान्यच्च कर्म सात्त्विकमुच्यते॥ अनु.१४५ दा.पा.अ.VIII॥

दाक्ष्यं कर्मपरत्वं च लोभो मोहो विधिं प्रति।
कलत्रसङ्गो माधुर्यं नित्यमैश्वर्यलुब्धता॥
रजसश्चोद्भवं चैतत् कर्म नानाविधं सदा॥ अनु.१४५ दा.पा.अ.VIII॥

अनृतं चैव पारुष्यं धृतिर्विद्वेषिता भृशम्।
हिंसासत्यं च नास्तिक्यं निद्रालस्य भयानि च॥
तमसश्चोद्भवं चैतत् कर्म पापयुतं तथा॥ अनु.१४५ दा.पा.अ.VIII॥

सात्त्विकाः पुण्यलोकेषु राजसा मानुषे पदे।
तिर्यग्योनौ च नरके तिष्ठेयुस्तामसा नराः॥ अनु.१४५ दा.पा.अ.VIII॥

कर्मक्षये तु सम्प्राप्ते प्राणिनां जन्मधारिणाम्।
उपद्रवो भवेद देहे येन केनापि हेतुना॥
तन्निमित्तं शरीरी तु शरीरं प्राप्य संक्षयम्।
अपयाति परित्यज्य ततः कर्मवशेन सः॥ अनु.१४५ दा.पा.अ.VIII॥

देहः क्षयति नैवात्मा वेदनाभिर्न चाल्यते।
तिष्ठेत् कर्मफलं यावद् व्रजत् कर्मक्षये पुनः॥ अनु.१४५ दा.पा.अ.VIII॥

न त्वसौ चक्षुषा ग्राह्यो न च सर्वेरपीन्द्रियैः।
मनसैव प्रदीपेन महानात्मा प्रदृश्यते॥ आश्व.१९/४८॥

घ्राणेन न तदाघ्रेयं नास्वाद्यं चैव जिह्वया।
स्पर्शनेन तदस्पृश्यं मनसा त्ववगम्यते॥ आश्व.२०/१२॥

अधिष्ठाता मनो नित्यं भूतानां महतां तथा।
बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञश्च स उच्यते॥ आश्व.५१/२॥

इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः।
इन्द्रियाणि मनो बुद्धिः क्षेत्रज्ञे युज्यते सदा॥ आश्व.५१/३॥

महदश्वसमायुक्तं बुद्धिसंयमनं रथम्।
समारुह्य स भूतात्मा समन्तात् परिधावति॥ आश्व.५१/४॥

इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च।
बुद्धिसंयमनो नित्यं महान् ब्रह्ममयो रथः॥ आश्व.५१/५॥

आत्मा नदी भारत पुण्यतीर्थमात्मा तीर्थं सर्वतीर्थप्रधानम्।
आत्मा यज्ञः सततं मन्यते वै स्वर्गो मोक्षः सर्वमात्मन्यधीनम्॥ आश्व.९२ दा.पा.अ.XIX॥